________________
१९८
सागारधर्मामृते-- तद्वितीयः किन्त्वार्यसञो लुञ्जत्यसौ कचान् । - कौपीनमात्रयुग्धत्ते यतिवत्पतिलेखनम् ॥ ४८ ॥ टीका-भवति । कोऽसौ, द्वितीय उत्कृष्टः । किंवत् , तद्वत् प्रथमेन तुल्यक्रियः । किंतु विशेषेण लुञ्जति हस्तेनोत्पाटयत्यसौ। कान्, कचान् कूर्चशिरःकेशान् । किं नामा, आर्यसञ्ज्ञः आर्य इति सञ्ज्ञा नाम बस्यासौ। तथा धत्ते धारयत्यसौ । किं तत्प्रतिलेखनं पिच्छिकाख्यं संयमोपकरणं । किंवत् , यतिवत् संयतेन तुल्यं । किंविशिष्टः सन्, कौपीनमात्रयुक कौपीन. मात्रं गुह्यप्रच्छादनचेलखण्डमात्रं युनक्त्यात्मना योजयति नोत्तरीयादिकं यः स तथोक्तः॥४८॥
स्वपाणिपात्र एवात्ति संशोध्यान्येन योजितम् ।
इच्छाकारं समाचारं मिथः सर्वे तु कुवेते ॥ ४९ ॥ टीका तथा अत्ति जेमत्यसावाहारं । किंविशिष्टं, योजितं समर्पितं । क, स्वपाणिपात्र एव निजहस्तपुटे न स्थाल्यादौ । केन, अन्येन गृहस्थादिना । किं कृत्वा, संशोध्य । एवमसाधारणमाचारमुक्त्वा साधारणं तमाह-इच्छेत्यादि । कुर्वते विदधते । के, सर्वे एकादशापि श्रावकाः । कं, समाचारं । किंविशिष्टमिच्छाकारं इच्छामीत्येवंविधोच्चारणलक्षणं । कथं, मिथः परस्परं । तुर्विशेषे ॥ ४९ ।। इदानी दशभिः पद्यैः शेषं संगृह्णन्नाह
श्रावको वीरचाहःप्रतिमातापनादिषु ।
स्यानाधिकारी सिद्धान्तरहस्याध्ययनेपि च ॥५०॥ टीका-न स्यात्कोऽसौ, श्रावकः । किंविशिष्टोऽधिकारी योग्यः । क्व, वीरेत्यादि वीरचर्या स्वयं भ्रामर्या भोजनं,अहःप्रतिमा दिनप्रतिमा,आतापनादयस्त्रिकालयोगाः ग्रीष्मे सूर्याभिमुखं गिरिशिखरेऽवस्थानं, वर्षासु वृक्षमूले, शीतकाले रजन्यां चतुष्पथे, इत्येवंलक्षणास्त्रयः कायक्लेशविशेषाः । तथा सिद्धान्तस्य परमागमस्य सूत्ररूपस्य रहस्यस्य च प्रायश्चित्तशास्त्रस्याध्ययने पाठे श्रावको नाधिकारी स्यादिति सम्बन्धः ॥ ५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org