SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । टीका-ततः प्रकृतकर्मकरणानन्तरं । गुरोर्धर्माचार्यस्योपान्तं समीपं गत्वा । गृह्णीयात्स्वीकुर्यात् सः । किं तत्, चतुर्विधं चतुर्विधाहारविषयं । प्रत्याख्यानं नियमं । कथं, विधिवत् यथाविधि । तथा आलोचयेत् निवेदयेत्सः । किं तत्, सर्व गमनात्प्रभृति स्वचेष्टितं । क्व, पुरोऽग्रे । कस्य, गुरोः। चशब्दाद्गोचरी प्रतिक्रमणां कुर्यात् ॥ ४५ ॥ एवमनेकभिक्षानियमस्य प्रथमोत्कृष्टस्य भोजनविधिमुक्त्वा सम्प्रति तस्यैवैकभिक्षानियमस्य तदुपदिशति यस्त्वेकभिक्षानियमो गत्वाऽयादनुमुन्यसौ । भुक्त्यभावे पुनः कुर्यादुपवासमवश्यकम् ॥ ४६ ॥ टीका--यस्तु प्रथमोत्कृष्टो भवति । कीदृशः, एकस्यामेकगृहसंबधिन्यां भिक्षायां नियमः प्रतिज्ञा यस्य स एकभिक्षानियमः । असावद्यात् भोजनं कुर्यात् । किं कृत्वा, गत्वा दातृगृहं व्रजित्वा । कथमनमुनि संयतस्य पश्चात् । एतेन प्रथमोत्कृष्टो द्वेधा स्यादनेकभिक्षानियम एकभिक्षानियमश्चेत्युक्तं प्रतिपत्तव्यं । स पुनः कुर्यात् । कमुपवासं । कथमवश्यं नियमेन । क सति, भुक्त्यलाभे सति तथाभोजनस्याप्राप्तौ ॥ ४६ ॥ तद्विधिविशेषमाह-- बसेन्मुनिवने नित्यं शुश्रूषेत गुरूँश्चरेत् । तपो द्विधाऽपि दशधा वैयाकृत्यं विशेषतः ॥ ४७ ॥ टीका–स नित्यं सर्वदा । मुनिवने सँयताश्रमे । वसेन्निवासं कुर्यात् । तथा शुश्रूषेत पर्युपासीत । कान् , गुरून् धर्माचार्यादीन् । तथा चरेदनुतिष्ठेत् । किं तत्तपः । कथम्भूतं, द्विधाऽपि बाह्यमाभ्यन्तरं च । तथा स चरेत् । किं तत्, वैय्यावृत्यं संयमिनामापत्प्रतीकारं । कतिधा, दशधा आचार्या. दिगोचरत्वेन दशप्रकारं । केन, विशेषतोऽतिशयेन अन्तरङ्गतपस्यस्य संगृ. हीतस्यापि पृथगुपदेश इतरतपस्त इदमतिशयेनासौ श्रावकश्चरेदितिज्ञापनाथम् ॥ ४७ ॥ अथ द्वितीयमुद्दिष्टविरतं लक्षयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy