________________
१९६
सागारधर्मामृते
कोऽसौ, सः । कां, भिक्षां । किं कृत्वा, भणित्वा । कं, धर्मलाभं धर्मलाभः शब्दमुच्चार्येत्यर्थः । किं कृत्वा, स्थित्वा उद्यो भूत्वा । क्व, तदङ्गणे श्रावकगृहाग्रभागे । किंविशिष्टः सन् पात्रपाणिः भिक्षापात्रहस्तः । किं कृत्वा, गत्वा प्राप्य । किं तत् श्रावकगृहं । वा अथवा । स प्रार्थयेत् भिक्षां । केन, मौनेन । किं कृत्वा, दर्शयित्वा दातृदृष्टिगोचरं कृत्वा । किं तत् अङ्गं स्वशरीरं । ततश्च गच्छेत् व्रजेत् । किं तत् गृहं । किंविशिष्टं, अन्यत् अयाचित - भिक्षं । किं कृत्वा, निर्गत्य याचितभिक्षागृहान्निष्क्रम्य । कथं, अचिरात् शीघ्रं । किंविशिष्टः, समः रागद्वेषरहितः । क्व, लाभालाभे भिक्षायाः प्राप्तावप्राप्तौ च । भिक्षोद्युक्तस्तु भिक्षां याचमानः पुनः केनचिच्छ्रावकेण । भोज. नाय भोजनं कर्तुमर्थितः उपरुद्धः सन् । अद्यात् तद्गृहे भुञ्जीत । किं कृत्वा, भुक्त्वा जेमित्वा । किं तत्तदन्नं । यत्किं यद्भिक्षितं गृहान्तरेषु याचितं ॥ किंयत् मनाक् स्तोकं । बहौ भिक्षिते सति नान्यस्यान्नं भुञ्जीतेति भावः । अन्यथा परोपरोधाभावे । प्रार्थयेत याचेत सः । कां, भिक्षां । कथं, यावन्मकृत्यं । कां स्वोदरपूरणीं भिक्षां । स्वस्यैवोदरं यावत्या पूर्यते तावतीमेव प्रार्थयेत अन्यथा असंयमप्रसङ्गः । अथवा यावत् स्वोदरपूरणी भिक्षा: भवति तावदेव प्रार्थयेतेति वाक्यभेदेन सम्बन्धः । ततश्च चरेत् गोवभुजीतेति भावः । कां तां भिक्षां । किं कृत्वा, संशोध्य सम्यक् शोधयित्वा h क्व, तत्र श्रावकगृहे । यत्र किं यत्र लभेत् प्राप्नुयात्सः । किं तदम्भः पानीयं । किंविशिष्टं, प्रासु प्रासुकं निर्जीवम् || ४०/४१।४२।४३ ॥
>
,
आकांक्षन्संयमं भिक्षापात्रप्रक्षालनादिषु ।
स्वयं यतेत चादर्पः परथाऽसंयमो महान् ॥ ४४ ॥ टीका - स चादपों विद्यातिशयाद्यनाहितमदः सन् । स्वयं यतेतात्मना यत्नं कुर्यात् । क, भिक्षेत्यादि भिक्षापात्रस्य प्रक्षालनं धावनमादौ येषामासनस्थापनोच्छिष्टत्यजनादीनां तानि भिक्षापात्रप्रक्षालनादीनि कर्माणि तेषु । किं कुर्वन्, आकांक्षन् अभिलषन् । कं, संयमं प्राणिरक्षणं । परथा अन्यथा शिध्यादिना तद्विधाने भवत्यसंयमः । कीदृशो महान् भूयान् ॥ ४४ ॥ ततो गत्वा गुरूपान्तं प्रत्याख्यानं चतुर्विधम् । गृहीयाद्विधिवत्सर्वं गुरोश्चालोचयेत्पुरः ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org