________________
सप्तमोध्यायः ।
'श्रच्छादनवस्त्रं संव्यानं उत्तरीयवस्त्रं कौपीनं च संव्यानं च कौपीनसंव्यानं सिते वस्त्रे कौपीनसंव्याने यस्य स तथोक्तः । किं कुर्यात् ? अपनापयेत् अन्येनोत्सारयेत् । कान्, इमश्रुमूर्धजान् । श्मश्रूणि कूर्चान् केशान् मूर्धजान् शिरःकेशान् न तु कक्षादिस्थान् । कया, कर्तर्या कर्तरिकया वा अथवा क्षुरेण रामशास्त्रविशेषेण । अत्र द्वितीयो वाशब्दः समुच्चयेन ज्ञातव्यो यथासम्भवमिति ॥ ३८ ॥
स्थानादिषु प्रतिलिखेत् मृदूपकरणेन सः । कुर्यादेव चतुष्पमुपवासं चतुर्विधम् ॥
३९ ॥
टीका - प्रतिलिखेत् भूतलादिषु प्रमृज्यात् । कोऽसौ स प्रथम उत्कृष्टः । केन, मृदूपकरणेन मृदुना सुकुमारेण जन्त्रबाधकेनोपकरणेन वस्त्रादिना । केषु कर्त्तव्येषु, स्थानादिषु ऊर्ध्वभावेोपवेशन संवेशनादिषु । तथा कुर्यादेव अवश्यं विदध्यादसौ । कमुपवासमनशनं । किंविशिष्टं चतुर्विधं चतस्रो विधा आहारास्त्याज्या यस्मिन्नसौ चतुर्विधस्तं । चतुष्प मासि मासि द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योः ॥ ३९ ॥
१९५
स्वयं समुपविष्टोऽद्यात्पाणिपात्रेऽथ भाजने । स श्रावकगृहं गत्वा पात्रपाणिस्तदङ्गणे ॥ ४० ॥ स्थित्वा भिक्षां fमलाभं भणित्वा प्रार्थयेत वा । मौनेन दर्शयित्वाऽङ्गं लाभालाभे समोऽचिरात् ॥ ४१ ॥ निर्गत्याऽन्यगृहं गच्छेद्भिक्षोद्युक्तस्तु केनचित् । भोजनायार्थितोऽयात्तद्भुक्त्वा यद्भिक्षितं मनाक् ||४२ ॥ प्रार्थयेतान्यथा भिक्षां यावत्स्वोदरपूरणीम् ।
लभेत प्रासु यत्राम्भस्तत्र संशोध्य तां चरेत् ॥ ४३ ॥ कलापकं
Jain Education International
टीका - स प्रथमोत्कृष्टोऽद्यात् भुञ्जीत । केन, स्वयमात्मना । किंविशिष्टः सन्, समुपविष्टः निश्चलनिविष्टः । क्व, पाणिपात्रे हस्तपुटे । अथवा भाजने स्थायादौ । इतः श्रावकेत्यादिना भिक्षणविधिमाह-प्रार्थयेत् भिक्षेत ।
For Private & Personal Use Only
www.jainelibrary.org