________________
सागारधर्मामृते
पौरस्त्यं एकादशमुद्दिष्टविरत्याख्यं । कस्मै, साधकत्वाय आत्मशोधनार्थं । किं कृत्वा, निष्ठाप्य परिसमाप्य । कां, चर्या संयमाचारं । किंविशिष्टां, गृहत्या. गपर्यन्तां गृहत्यागः पर्यन्ते अवसाने यस्याः तां । कथमित्येवम् ॥ ३६ ॥ अथोद्दिष्टविरतस्थानं त्रयोदशभिः श्लोकैाचष्टे
तत्तव्रतास्त्रनिर्मिनश्वसन्मोहमहाभटः ।
उद्दिष्टं पिण्डमप्युज्झेदुत्कृष्टः श्रावकोऽन्तिमः ॥३७ ॥ टीका-उज्झेत् त्यजेत् । कोऽसौ, अन्तिमः श्रावकः । किंविशिष्टः, उत्कृष्टः अयमित्थंभूतनयादुत्कृष्टोऽनुमतिविरतस्तु नैगमनयादिति ज्ञापनार्थमुभी भिक्षू तौ प्रकृष्टौ चेति प्रागुक्तमपीदं विशेषणं पुनरुक्तं । किमुज्झेत्, पिण्डं भक्तं अपिशब्दादुपधिशयनासनादि । किंविशिष्टमुद्दिष्टं आत्मोद्देशेन कल्पितं । नवकोटिविशुद्धं स्वीकुर्यादित्यर्थः । किंविशिष्टः सन्, तदित्यादि-तानि पूर्वोक्तानि व्रतानि यथास्वं निवृत्तिप्रवृत्तिरूपाण्याचरणानि तत्तद्रतानि तान्येवास्त्राणि प्रहरणानि तैर्भिन्नो नितरां विदारितः स चासौ श्वसन् किञ्चिज्जीबन् जिनरूपताप्राप्तिं प्रतिबन्धन् मोह एव महाभटो दुर्निवारवीरो यस्य स तथोक्तः ॥ ३७॥ तद्भेदलक्षणार्थमाह
स द्वेधा प्रथमः श्मश्रुमूर्धजानपनाययेत् ।
सितकौपीनसव्यानः कर्तर्या वा क्षुरेण वा ॥ ३८ ॥ टीका-स उत्कृष्टश्रावको द्वेधा द्विविधो भवति । तत्राद्यस्य प्रथम इत्यादिना प्रबन्धेन विधिमभिधत्ते-अपनाययेत् छेदयेत् । कोऽसौ, प्रथम आद्य उद्दिष्टविरतः । कान् , श्मश्रुमूर्धजान् कूर्चशिरःकेशान् । कया, कर्तर्या कर्तरिकया । वा धुरेण नापितोपकरणेन वा। अत्र कर्तर्याऽपनायनं श्लाध्यतरं शोभानाकांक्षणात् । तथा सितकौपीनसंव्यानो भवेत् श्वेतकक्षापटोत्तरीयपटचासौ स्यादित्यर्थः ॥
(२) स उत्कृष्ट उद्दिष्टविरतश्रावकः द्वेधा द्विविधो भवतीति सम्बन्धः । तत्र तावत् प्रथमः आद्यः । किंविशिष्टः ? सितकौपीनसंव्यानः कौपीनं गुह्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org