SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०२ सागारधर्मामृते~~~mommmmmmmmmmmmmmmmmmmmmm नामपवादहेतुत्वादपवादो ग्रन्थस्तत्र भवं । पुनः किंविशिष्टां, चित्रां नानाप्रकारां । कथमित्येवमुक्तप्रकारेण ॥ ६० ॥ साधकत्वं व्याकर्तुकामस्तत्स्वामिनं निर्दिशति इत्येकादशधाऽऽम्नातो नैष्ठिकः श्रावकोऽधुना। सूत्रानुसारतोऽन्त्यस्य साधकत्वं प्रवक्ष्यते ॥ ६१ ॥ टीका-इत्येवं नैष्ठिकश्रावक एकादशधाऽस्माभिराम्नातः पारम्पर्योपदेशेन वर्णितः । अधुना साम्प्रतमित अवं प्रवक्ष्यते प्रकर्षेण वर्णयिष्यते अस्माभिः । किं तत्साधकत्वं तृतीयं साधनाख्यं पदं । अंत्यस्योद्दिष्टविरतस्य श्रावकस्य । कस्मात्सूत्रानुसारतः परमागममनुसृत्येति भद्रम् ॥ ६१ ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मटीकायां भव्यकुमुदचन्द्रिकासज्ञायामादितः षोडशः प्रक्रमाच्च सप्तमोऽध्यायः ॥ ७॥ अथाष्टमोऽध्यायः। अथ सल्लेखनाविधिमभिधातुकामस्तत्प्रयोक्तारं लक्षयन्नाह देहाहारेहितत्यागात् ध्यानशुध्याऽऽत्मशोधनम् ! __ यो जीवितान्ते सम्प्रीतः साधयत्येष साधकः ॥ १॥ टीका-भवत्येष साधकः । यः किं, यः साधयति निर्वतयति । किं तत्, आत्मशोधनं आत्मनोऽन्तस्तत्त्वस्य शोधनं शुद्धिं मोहरागद्वेषापगमं रत्नत्रयपरिणतिमित्यर्थः । क्व, जीवितान्ते प्राणनाशे प्राणेषु नश्यस्वित्यर्थः । किंविशिष्टः सन् , सम्प्रीतः सर्वाङ्गीणध्यानसमुत्थानन्दयुक्तः । कया तत्साधयति ? ध्यानशुध्या ध्यानस्यैकाग्रचिन्तानिरोधस्य शुद्धिरातरौद्रपरित्यागेन स्वात्मन्यवस्थानं निर्विकल्पसमाधिरित्यर्थः । कस्मात् , देहाहारहितत्यागात् देहत्यागः शरीरममत्ववर्जनमाहारत्यागश्चतुर्विधाहारप्रत्याख्यानमीहितत्यागो मनोवाक्कायव्यापारव्यावर्तनं देहश्चाहारश्च ईहितं च देहाहारेहितानि तेषां त्यागस्तस्मात् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy