Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
सप्तमोध्यायः।
१७९
कृत्वा यथोक्तं कृतिकर्म सन्ध्यात्रयेऽपि यावनियम समाधेः। यो वज्रपातेऽपि न जात्वपैति सामायिकी कस्य सन प्रशस्यः।२।
टीका-स सामायिकार्थिनः शक्रादेर्वा न प्रशस्यः सर्वस्यापि श्लाघ्य इत्यर्थः । यः किं, यो नापैति न प्रच्यवते । कस्मात्समाधेः रत्नत्रयैकाग्रलक्षणाद्योगात् । कदा, जातु कदाचिदपि । क्व सति, वज्रेऽपि पतति सति । किं पुनरन्यत्रोपसर्गकारणे । कियत्कालमित्याह -यावनियमं प्रतिज्ञावधि । एत. निश्चयसामायिकं । किं कृत्वा, अनुष्ठाय । किं तत्, कृतिकर्म । किंविशिष्टं, यथोक्तं आवश्यकाध्याये योग्यकालेत्यादिप्रबन्धेन व्याख्यातं वन्दनाकर्म । क, सन्ध्यात्रयेऽपि तिसृष्वपि सन्ध्यासु शक्त्याऽन्यदाऽपि । साम्यभावनानुज्ञा. नार्थो वा अपिशब्दः । एतद्व्यवहारसामायिकम् ॥ २ ॥ निश्चयसामायिकशिखराधिरूढाय श्लाघते
आरोपितः सामयिकत्रतप्रासादमूर्धनि ।
कलशस्तेन येनैषा भूरारोहि महात्मना ॥ ३ ॥ टीका-आरोपितः स्थापिसः । कोऽसौ, कलशः । केन, तेन । क, सामायिकेत्यादि-समयः केशबन्धादिनियमितः कालस्तत्र भवं सामायिकं साम्यभावनं तदेव व्रतं सामायिकव्रतं तदेव प्रासादो देवगृहं दुरासदत्वात् दुरारोहस्वादिष्टसिद्धिनिबन्धनत्वाच्च तस्य मूर्धनि शिखराग्रे । येन किं कृतं, येन महास्मना गणधरचक्रधरेन्द्रादीनां स्पृहणीयेन आरोहि आरूढा। काऽसौ, एषा भूर्यवहारसामायिकपूर्वा निश्चयसामायिकप्रतिमा ॥ ३ ॥ अथ चतुःश्लोक्या प्रोषधोपवासस्थानं व्याचष्टे
स प्रोषधोपवासी स्याद्यः सिद्धः प्रतिमात्रये ।
साम्यान च्यवते यावत्प्रोषधानशनव्रतम् ॥ ४ ॥ टीका-स्याद्भवेत् । कोऽसौ, स श्रावकः । किंविशिष्टः, प्रोषधोपवासी प्रोषधोपवासप्रतिमावान् । यः किं, यो न च्यवते न भ्रश्यति । कस्मात्साम्यात् भावसामायिकात् । प्रोषधोपवासशीले तु तदुपरमे नामादिसामायिकपञ्चकस्याप्यनुचरणात् । कियकालं, यावत्प्रोषधानशनव्रतं प्रोषधोपवासप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268