Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
सप्तमोध्यायः ।
१९३
प्राग्वत् ॥ अहो समस्तेतराचारप्रवर्तकस्वशक्त्यनिगृहनलक्षणवीर्याचार, शेषं प्राग्वत् । अथ यथोचितमेतदाचक्ष्महे ।। तथाहि-अहो मदीयशरीरजनकस्यात्मन् अहो मदीयशरीरजनन्यात्मन् नायं मदात्मा युवाभ्यां जनितो भवतीति निश्चयेन युवां जानीतं। तत आपृष्टौ युवामिममात्मानं विमुञ्चत । अयमा. त्माऽद्योद्भिन्नज्ञानज्योतिरात्मानमेवात्मनोऽनादिजनकमुपसर्पति । तथा अहो मदीयशरीरबन्धुजनवर्तिन आत्मानः अयं मदात्मा न किञ्चनापि युष्माकं भवतीति निश्चयेन यूयं जानीथ तत आपुष्टा यूयं, शेषं पूर्ववत् । न वरं जनकमित्यस्य स्थाने बंधुमिति पठनीयं । अहो मदीयशरीरपुत्रस्यात्मन् मदात्मनो न त्वं जन्यो भवसीति निश्चयेन त्वं जानीहि तत आपृष्टस्त्व. मिममात्मानं विमुञ्च, शेषं प्राग्वत् । न वरं बंधुस्थाने जन्यं पठेत् ॥ अहो मदीयशरीररमण्या आत्मन् मदात्मा न त्वां रमयतीति निश्चयेन त्वं जानीहि तत आपृष्टस्त्वमिममात्मानं विमुञ्च । अयमात्माऽद्योद्भिन्नज्ञानज्योतिः स्वानुभूतिमेवात्मनोऽनादिरमणीमुपसर्पतीत्यादि ॥ ३४ ।। विनयादाचारस्य भेदं विस्तरेण प्रागुक्तमिदानीं सुखस्मृत्यर्थं संक्षिप्य पुनराह
सहनिवृत्ततपसां मुमुक्षोनिर्मलीकृतौ ।
यत्नो विनय आचारो वीर्याच्छुद्धेषु तेषु तु ॥ ३५॥ टीका-भण्यते सूरिभिः । कोऽसौ, विनयः। किं, यत्नः प्रणिधानं । क्व, निर्मलीकृतौ मलापनयने । सनिवृत्ततपसां सम्यग्दर्शनज्ञानचारित्रतपसां । कस्य, मुमुक्षोः न बुभुक्षोः । आचारस्तु भण्यते । किं, यत्नः । केषु, तेषु सहगादिषु चतुर्पु । किविशिष्टेषु, शुद्धेषु निर्मलीकृतेषु । कस्मात्, वीर्यात् स्वशक्तिमनिगृह्य । एतेन पञ्चमो वीर्याचारः सूच्यते ॥ ३५ ॥ सम्प्रत्युपसंहरति
इति चर्या गृहत्यागपर्यन्तां नैष्ठिकाग्रणीः ।
निष्ठाप्य साधकत्वाय पौरस्त्यपदमाश्रयेत् ॥ ३६ ॥ टीका-आश्रयेत् स्वीकुर्यात् । कोऽसौ, नैष्ठिकाग्रणीः नैष्टिकेषु दार्शनिकादिषु नवस्वग्रणीच्ख्योऽनुमतिविरतः । किं तत्, पदं स्थानं । किंविशिष्टं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/43556b2be6942d83d7abdc4d92b52be9fe6dc670e2caee79d53a40ad58687cd0.jpg)
Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268