Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 213
________________ १९८ सागारधर्मामृते-- तद्वितीयः किन्त्वार्यसञो लुञ्जत्यसौ कचान् । - कौपीनमात्रयुग्धत्ते यतिवत्पतिलेखनम् ॥ ४८ ॥ टीका-भवति । कोऽसौ, द्वितीय उत्कृष्टः । किंवत् , तद्वत् प्रथमेन तुल्यक्रियः । किंतु विशेषेण लुञ्जति हस्तेनोत्पाटयत्यसौ। कान्, कचान् कूर्चशिरःकेशान् । किं नामा, आर्यसञ्ज्ञः आर्य इति सञ्ज्ञा नाम बस्यासौ। तथा धत्ते धारयत्यसौ । किं तत्प्रतिलेखनं पिच्छिकाख्यं संयमोपकरणं । किंवत् , यतिवत् संयतेन तुल्यं । किंविशिष्टः सन्, कौपीनमात्रयुक कौपीन. मात्रं गुह्यप्रच्छादनचेलखण्डमात्रं युनक्त्यात्मना योजयति नोत्तरीयादिकं यः स तथोक्तः॥४८॥ स्वपाणिपात्र एवात्ति संशोध्यान्येन योजितम् । इच्छाकारं समाचारं मिथः सर्वे तु कुवेते ॥ ४९ ॥ टीका तथा अत्ति जेमत्यसावाहारं । किंविशिष्टं, योजितं समर्पितं । क, स्वपाणिपात्र एव निजहस्तपुटे न स्थाल्यादौ । केन, अन्येन गृहस्थादिना । किं कृत्वा, संशोध्य । एवमसाधारणमाचारमुक्त्वा साधारणं तमाह-इच्छेत्यादि । कुर्वते विदधते । के, सर्वे एकादशापि श्रावकाः । कं, समाचारं । किंविशिष्टमिच्छाकारं इच्छामीत्येवंविधोच्चारणलक्षणं । कथं, मिथः परस्परं । तुर्विशेषे ॥ ४९ ।। इदानी दशभिः पद्यैः शेषं संगृह्णन्नाह श्रावको वीरचाहःप्रतिमातापनादिषु । स्यानाधिकारी सिद्धान्तरहस्याध्ययनेपि च ॥५०॥ टीका-न स्यात्कोऽसौ, श्रावकः । किंविशिष्टोऽधिकारी योग्यः । क्व, वीरेत्यादि वीरचर्या स्वयं भ्रामर्या भोजनं,अहःप्रतिमा दिनप्रतिमा,आतापनादयस्त्रिकालयोगाः ग्रीष्मे सूर्याभिमुखं गिरिशिखरेऽवस्थानं, वर्षासु वृक्षमूले, शीतकाले रजन्यां चतुष्पथे, इत्येवंलक्षणास्त्रयः कायक्लेशविशेषाः । तथा सिद्धान्तस्य परमागमस्य सूत्ररूपस्य रहस्यस्य च प्रायश्चित्तशास्त्रस्याध्ययने पाठे श्रावको नाधिकारी स्यादिति सम्बन्धः ॥ ५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268