Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 207
________________ १९२ सागारधर्मामृते सा मे कथं स्यादुद्दिष्टं सावधाविष्टमश्नतः। कर्हि भैक्षामृतं भोक्ष्ये इति चेच्छेजितन्द्रियः ३३ युग्मम् टीका-इच्छेच्च आकांक्षेदसौ । किं. इति एतत् । किं कुर्वन् भुञ्जानः । किं, यथाप्राप्तं यद्यल्लब्धं तत्तत्संयमाविरोधेनाश्नन्नित्यर्थः । किंविशिष्टो, यतः जिते. न्द्रियः। जितानि वशीकृतानीन्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियः । किमेतदिच्छदित्यत्राह-खलु निश्चयेन । अपेक्ष्यते आकांक्ष्यते । किं तत्, भोजनं । कैः, मुमुक्षुभिः । किमर्थं, देहसिध्द्यर्थं शरीरवर्तनाथ। तथा अपेक्ष्यते देहस्तः । किमर्थ, धर्मसिध्यर्थं रत्नत्रयानिष्पत्त्यर्थं । सा च धर्मसिद्धिः कथं न कथमपि स्यात् । कस्य, मे मम । किं कुर्वतोऽनतो भुजानस्य । किं तत्, उद्दिष्टं स्वोद्देशेन साधितमाहारं । किंविशिष्टं, सावद्याविष्ठं सावधेनाधःकर्मणा संसृष्टं । तत: कर्हि कस्मिन्काले । भोक्ष्ये वल्भिध्येऽहं । किं तत्, भैक्षामृतं भिक्ष्यन्त इति भिक्षाः याचितप्राप्ताहाराः भिक्षाणां समूहो भैक्षं भैक्षममृतमिवाजरामरत्वहेतुत्वात् ॥ ३२ । ३३ ॥ अस्यैव गृहत्यागविधिमाह पञ्चाचारक्रियायुक्तो निष्क्रमिष्यन्नसौ गृहात् । आपृच्छेत गुरून् बन्धून् पुत्रादींश्च यथोचितम् ॥ ३४॥ टीका-आपृच्छेत संवदेदसौ । कान्पुत्रादीन् । कथं, यथोचितं यथार्ह । किं करिष्यन् , निष्क्रमितुमिच्छन् । कस्माद्हात् द्रव्यभावगेहात् । किंविशिष्टः सन् , पञ्चाचाराक्रियोयुक्तः पञ्चानां ज्ञानाद्याचाराणां करणे तत्परः । अत्रायं विधिःअहो कालविनयोपधानबहुमानानिवार्थव्यञ्जनतदुभयसम्पन्नत्वलक्षणज्ञानाचार न शुद्धस्यात्मनस्त्वमसीति निश्चयेन जानामि, तथापि त्वां तावदाश्रयामिः यावत्त्वत्प्रसादाच्छुद्धमात्मानमुपलभे । अहो निःशंकितत्वनिःकांक्षितत्वनिर्वि. चिकित्सितत्वनिर्मूढदृष्टित्वोपबृंहणस्थितीकरणवात्सल्यप्रभावनालक्षणदर्शनाचार, शेषं पूर्ववत् । अहो मोक्षमार्गप्रवृत्तिकारणपञ्चमहाव्रतोपेतकायवाङ्मनो. गुप्तीर्याभाषेषणापाननिक्षेपणप्रतिष्ठापनसमितिलक्षणचारित्राचार, शेषं पूर्ववत् । अहो अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लशे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268