________________
१९२
सागारधर्मामृते
सा मे कथं स्यादुद्दिष्टं सावधाविष्टमश्नतः।
कर्हि भैक्षामृतं भोक्ष्ये इति चेच्छेजितन्द्रियः ३३ युग्मम् टीका-इच्छेच्च आकांक्षेदसौ । किं. इति एतत् । किं कुर्वन् भुञ्जानः । किं, यथाप्राप्तं यद्यल्लब्धं तत्तत्संयमाविरोधेनाश्नन्नित्यर्थः । किंविशिष्टो, यतः जिते. न्द्रियः। जितानि वशीकृतानीन्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियः । किमेतदिच्छदित्यत्राह-खलु निश्चयेन । अपेक्ष्यते आकांक्ष्यते । किं तत्, भोजनं । कैः, मुमुक्षुभिः । किमर्थं, देहसिध्द्यर्थं शरीरवर्तनाथ। तथा अपेक्ष्यते देहस्तः । किमर्थ, धर्मसिध्यर्थं रत्नत्रयानिष्पत्त्यर्थं । सा च धर्मसिद्धिः कथं न कथमपि स्यात् । कस्य, मे मम । किं कुर्वतोऽनतो भुजानस्य । किं तत्, उद्दिष्टं स्वोद्देशेन साधितमाहारं । किंविशिष्टं, सावद्याविष्ठं सावधेनाधःकर्मणा संसृष्टं । तत: कर्हि कस्मिन्काले । भोक्ष्ये वल्भिध्येऽहं । किं तत्, भैक्षामृतं भिक्ष्यन्त इति भिक्षाः याचितप्राप्ताहाराः भिक्षाणां समूहो भैक्षं भैक्षममृतमिवाजरामरत्वहेतुत्वात् ॥ ३२ । ३३ ॥ अस्यैव गृहत्यागविधिमाह
पञ्चाचारक्रियायुक्तो निष्क्रमिष्यन्नसौ गृहात् ।
आपृच्छेत गुरून् बन्धून् पुत्रादींश्च यथोचितम् ॥ ३४॥ टीका-आपृच्छेत संवदेदसौ । कान्पुत्रादीन् । कथं, यथोचितं यथार्ह । किं करिष्यन् , निष्क्रमितुमिच्छन् । कस्माद्हात् द्रव्यभावगेहात् । किंविशिष्टः सन् , पञ्चाचाराक्रियोयुक्तः पञ्चानां ज्ञानाद्याचाराणां करणे तत्परः । अत्रायं विधिःअहो कालविनयोपधानबहुमानानिवार्थव्यञ्जनतदुभयसम्पन्नत्वलक्षणज्ञानाचार न शुद्धस्यात्मनस्त्वमसीति निश्चयेन जानामि, तथापि त्वां तावदाश्रयामिः यावत्त्वत्प्रसादाच्छुद्धमात्मानमुपलभे । अहो निःशंकितत्वनिःकांक्षितत्वनिर्वि. चिकित्सितत्वनिर्मूढदृष्टित्वोपबृंहणस्थितीकरणवात्सल्यप्रभावनालक्षणदर्शनाचार, शेषं पूर्ववत् । अहो मोक्षमार्गप्रवृत्तिकारणपञ्चमहाव्रतोपेतकायवाङ्मनो. गुप्तीर्याभाषेषणापाननिक्षेपणप्रतिष्ठापनसमितिलक्षणचारित्राचार, शेषं पूर्ववत् । अहो अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org