________________
सप्तमोध्यायः ।
यमं निराकरोति तद्ग्रन्थानुवादस्तु ज्ञानदीपिकायां द्रष्टव्यः । गृहे तिष्टेदित्यनेन स्वांगाच्छादनार्थं वस्त्रमात्रधारणममूछीमस्य लक्षयति । तेन विना गृहेऽवस्थानानुपपत्तेः । तथा ह्यागमः " मोत्तूग वत्तमित्तं परिग्गहं जो विव. जदे सेसं । तं तत्थ विमुच्छण्णं करेदि जाग सो सावओ णवमो ॥ २९ ॥ अथानुमतिविरतं सप्तश्लोक्या व्याचष्टे
नवनिष्ठापरः सोऽनुमतिव्युपरतः सदा ।
यो नानुमोदेत ग्रन्थमारम्भं कर्म चैहिकम् ।। ३० ॥ टीका-स भवति । किंविशिष्टोऽनुमतिव्युपरतोऽनुमतिविरत इत्यर्थः । यः किं, यो नानुमोदते नानुमन्यते । कं, ग्रन्थं धनधान्यादिकं। तथा आरम्भकृप्यादिकं । तथा कर्म व्यापारं । किंविशिष्टमहिक विवाहादिकं । कथं, विधा मनोवाकायैः । किंविशिष्टः सन् , नवनिष्ठापरः दर्शनिकादिप्रतिमान वकानुष्टाननिष्टः ॥ ३० ॥ एतस्य विधिविशेषमाह
चैत्यालयस्थः स्वाध्यायं कुर्यान्मध्याह्नवन्दनात् । ऊर्ध्वमामन्त्रितः सोऽद्याद्गहे स्वस्य परस्य वा ॥ ३१ ॥ टीका---कुर्याद्विदध्यात्कोऽसावसौ अनुमतिविरतः । कं, स्वाध्यायमागमाध्ययनं । किंविशिष्टः सन्, चैत्यालयस्थः जिनगहे तिष्ठन् । तथा अद्यात् भुञ्जीत सः । क्व, गृहे । कस्य, स्वस्य आत्मीयस्य पुत्रादेः परस्य वा यस्य कस्य धार्मिकस्य । किंविशिष्टः सन्, आमंत्रित आहूतः । कथमूर्ध्वमुपरिष्टात् । कस्मान्मध्याह्नवन्दनात् माध्याह्निककृतिकर्मणः पश्चात् ॥ ३१ ॥ अस्यैवोद्दिष्टत्यागार्थ भावनाविशेषं श्लोकद्वयेनाह
यथाप्राप्तमदन्देहसिध्यर्थ खलु भोजनम् । देहश्च धर्मसिध्द्यर्थ मुमुक्षुभिरपेक्ष्यते ॥ ३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org