________________
१९०
सागारधर्मामृते
तदिदं मे धनं धर्म्य पोष्यमध्यात्मसात्कुरु । सैषा सकलदत्तिर्हि परं पथ्या शिवार्थिनाम् ॥ २७ ॥
टीका- -यत एवं तत्तस्मात् | आत्मसात्कुरु स्वायत्तं विधेहि त्वं । किं तत्, इदं वर्तमानं मे मम सम्बधि धनं ग्रामसुवर्णादिकं धर्म्यं चैत्यालयपात्रदानादिकं पोष्यं च गृहिणीमातृपित्रादि । कुत एतदित्याह - हि यस्माद्वर्तते । काsसौ, सा सूत्रोक्ता एषा विधीयमाना सकलदत्तिरन्वय दत्त्य पराभिधाना । कीदृशी, पथ्या पथोऽनपेता रत्नत्रयानुगतेत्यर्थः । केषां, शिवार्थिनां मुमुक्षूणां । कथं, परं अत्यर्थम् ॥ २७ ॥
विदीर्णमोहशार्दूलपुनरुत्थानशङ्किनाम् ।
त्यागक्रमोऽयं गृहिणां शक्त्याऽऽरम्भो हि सिद्धिकृत् ||२८||
टीका-वर्तते । कोऽसावयं प्रकृतः त्यागक्रमः शनैः शनैर्बहिरन्तः सङ्गवर्जनं । केषां गृहिणाम् । किंविशिष्टानां विदीर्णेत्यादि -- विदीर्णस्तत्तन्निष्टा सौष्ठवेन भिन्नः स चासौ मोहशार्दूलश्च ममकारव्याघ्रः तस्य पुनरुत्थानं भूयो निहन्तुमभियोगस्तं शङ्कन्ते विकल्पयन्त्यभीक्ष्णमिति तच्छंकिनस्तेषां । अर्थसमर्थमाह - हि यस्माद्भवति । कोऽसावारम्भः ऐहिकमामुत्रिकं वा अभिमतार्थं साधयितुमुपक्रमः । कया, शक्त्या स्वसामर्थ्येन क्रियमाणः । किंविशिष्टो भवति, सिद्धिकृत् अभिप्रेतार्थसाधकः || २८ ॥
,
एवं व्युत्सृज्य सर्वस्वं मोहाभिभवद्दानये । किञ्चित्कालं गृहे तिष्ठेदौदास्यं भावयन्सुधीः ॥ २९ ॥
टीका-तिष्ठेदासीत । कोऽसौ, सुधीः तत्त्वज्ञानसम्पन्नः । क्वगृहे । कं, कालं । कियन्तं, किंञ्चित्स्तोकं । किं कुर्वन्, भावयन्नभ्यस्यन् । किं तदौदास्यमुपेक्षां । कस्मै, मोहेत्यादि । मोहेन ममत्वेन अभिभत्र उपेक्षाशैथिल्यं येन पृष्टो वा आर-म्भादौ पुत्रादेरनुमतिं दास्यते तस्य हानये निराकरणार्थं । किं कृत्वा, व्युत्सृज्य विशेषणमिदं विधिपूर्व वा त्यक्त्वा । किं तत्सर्वस्वं चेतनमचेतनं च स्वं वस्तु । कथमेव मित्थं । किञ्चित्कालमित्यनेन सिताम्बरपरिकल्पितं प्रतिमासु कालनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org