SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । १८९. गोत्रज भ्रातृतत्पुत्रादिकं । किंविशिष्टं, तथाविधं योग्यपुत्रतुल्यं । किं ब्रूयादिदं वक्ष्यमाणं । कथं, साक्षात् समक्षं । केषां, जातिज्येष्ठसधर्मणां जाता ब्राम्हणत्वादौ ज्येष्ठा मुख्या जातिज्येष्ठास्ते च ते सधर्माणश्च साधर्मिकास्ते षाम् ॥ २४ ॥ ताताद्ययावदस्माभिः पालितोऽयं गृहाश्रयः । विरज्यैनं जिहासूनां त्वमद्याहोस नः पदम् ।। २५ ।। टीका-हे नात स्वस्थ पोष्यत्वसूचनगर्भ पुत्रादेः प्रियत्वामंत्रणमिदं । पालि. तो यथाविधि निर्वाहितः । कोऽसावयं प्रस्तुतो गृहस्थाश्रमो गृहस्थाचारः ।। कैरस्माभिः नवमप्रतिमानुष्ठाननिष्ठाभ्युद्यतैः । कथमद्ययावत् इदंदिनावधि । अद्य सम्प्रति । अर्हसि स्वीकर्तुमुचितोऽसि । कोऽसौ, त्वं । किं तत्, पदं त्रिव. गेसारगृहाचारानुवर्तनलक्षणं । केषां, नः अस्माकं । किं चिकीर्षुणां, जिहासूनां त्यक्त्तुमिच्छूनां । कमेनं गृहाश्रमं । किं कृत्वा, विरज्य भवाङ्गभोगेषु वैराग्यं गत्वा ॥२५॥ पुत्रः पुपूषोः स्वात्मानं सुविधेरिव केशवः । य उपस्कुरुते वप्तुरन्यः शत्रुः सुतच्छलात् ॥ २६ ॥ टीका- य उत्पन्नः पुनीते वंशं स पुत्र इति वचनात् स पुत्रो भण्यते । यः किं, य उपस्कुरुते गृहादिममत्वच्छेदेनातिशयमादत्ते । कस्य, वस्तुः पितुः । किं चिकीर्षोः, पुपूषोः शोधयितुमिच्छोः । कं, स्वात्मानं स्वचिद्रूपं । क इव कस्येत्याह-सुविधेरित्यादि यथा उपश्चक्रे । कोऽसौ, केशवः केशवो नाम श्रीमतीचरस्तत्पुत्रः । कस्य, सुविधेः वृषभनाथस्य पूर्वभवे सुविधिनाम्नो राज्ञः । उक्तं चार्षे-नृपस्तु सुविधिः पुत्रस्नेहाद्गार्हस्थ्यमत्यजन् । उत्कृष्टोपासकस्थाने तपस्तेपे सुदुश्चरं ॥ उक्तलक्षणवैपरीत्ये पुत्रस्थापि शत्रुत्वं वक्तुमाह-भवति । कोऽसौ, अन्यः पुत्रः । किंविशिष्ट, शत्रुः शातयिता इष्टविघातित्वात् । कस्मात्, सुतच्छलात्पुत्रव्याजात् ॥ २६ ॥ उपसंहारमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy