SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८८ सागारधर्मामृते एतदेव समर्थयते यो मुमुक्षुरघाद्विभ्यत्त्यक्तुं भक्तमपीच्छति । प्रवर्तयेत्कथमसौ प्राणिसंहरणीः क्रियाः ॥ २२ ॥ टीका-कथं प्रवर्तयेत् कुर्यात् कारयेच्च । कोऽसावसावष्टमश्रावकः । काः, क्रियाः । किंविशिष्टाः, प्राणिसंहरणीः जीवघातिकाः । यः किं, य इच्छति वांच्छति । किं कर्तु, त्यक्तुं प्रत्याख्यातुं । किं तत्, भक्तमपि प्राणिसंहरणकारणं भोजनमपि । किं कुर्वन्, बिभ्यत् । कस्मादघापापात्। किंविशिष्टः सन्, मुमुक्षुः कृत्स्नकर्मविप्रमोक्षमिच्छुः ॥ २२ ॥ अथ परिग्रहविरतं सप्तश्लोक्या व्याचष्टे स ग्रन्थविरतो यः प्राग्वतवातस्फुरद्धृतिः । नैते मे नाहमेतेषामित्युज्झति परिग्रहान् ॥ २३ टीका-स भवति । किमाख्यो, ग्रन्थविरतः। यः किं, य उज्झति त्यजति । कान्, परिग्रहान् वास्तुक्षेत्रादीन् दश । कथं, इति एवं संकल्प्य । न भवन्ति । के, एते वास्तुक्षेत्रादयोऽर्थाः । कस्य, मे मम स्वत्वभोग्यत्वादिना सम्बद्धाः । तथा न भवाम्यहं । केषामेतेषां स्वामित्वभोक्तृत्वादीनां सम्बन्धी । किंविशिष्टः सन्, प्रागित्यादि-प्राचां दर्शनिकादिप्रतिमांविषयाणां व्रतानां संयमविशेषाणां व्रातः सङ्कातः प्राग्व्रतवातः तेन स्फुरन्ती जाग्रती धृतिः सन्तोषो यस्य स तथोक्तः । किं च । स्वाचाराप्रातिलोम्येन लोकाचारं प्रमाणयेदिति वचनात्सर्वत्र स्वस्वस्थानाविरोधेनैव पूर्वस्थानानुष्टानमनुष्टेयम् ॥ २३ ॥ एतस्य सकलदत्तिमुत्तरप्रबन्धेन व्याचष्टे अथाहूय सुतं योग्य गोत्रज वा तथाविधम् । ब्रूयादिदं प्रशान् साक्षाजातिज्येष्ठसधर्मणाम् ॥ २४॥ टीका--अथाधिकारे इतः सकलदात्तराधिक्रियत इत्यर्थः । ब्रूयात् व्याहरेत्। कोऽसौ, प्रशान् प्रशमपरो नवमः श्रावकः । कं, सुतं पुत्रं । किंविशिष्टं, योग्यं स्वभारक्षमं। किं कृत्वा, आहूय भाकार्य । वा अथवा योग्यपुत्राभावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy