________________
सप्तमोध्यायः ।
१८७.
भिक्षुश्चेति । उक्तं च । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । इत्याश्रमास्तु जैनानां सप्तमाङ्गाद्विनिःसृताः ॥ १ ॥ तक्रियाभेदस्तु किञ्चिदयं दयतेब्रह्मचारिणस्तावदिमाः क्रियाः। द्विजसूनोर्गर्भाष्टमे वर्षे जिनालये कृतार्हत्पू जनस्य कृतमौण्ड्यस्य त्रिगुणमौजीबन्धसप्तगुणग्रन्थितयज्ञापवीतादि लिङ्गं विशुद्धं स्थूलहिंसाविरत्यादिव्रतं ब्रह्मचर्योपबृंहितं गुरुसाक्षिकं धारणीयं । तक्रियाप्रपञ्चः पुनरार्षे-शिखी सितांशुकः सान्तर्वासा निर्वेषविक्रयः । व्रतचिन्हं दधत्सूत्रं तदोक्तो ब्रह्मचार्यसौ ॥ चरणोचितमन्यच्च नामधेयं तदाऽस्य वै। वृत्तिश्च भिक्षयाऽन्यत्र राजन्यादुद्घवैभवात् ।। इत्यादिग्रन्थेनोक्तः प्रति. पत्तव्यः । पूर्वोक्तनित्यनैमित्तिकानुष्ठानस्थो गृहस्थः । स द्वेधा जातितीर्थक्षत्रियभेदात् । तत्र जातिक्षत्रियाः क्षत्रियब्राह्मणवैश्यशूद्रभेदाच्चतुर्विधाः । तीर्थक्षत्रियाः स्वजीवितविकल्पादनेकभेदा भिद्यन्ते । वानप्रस्था अपरिगृहीतजिनरूपा वस्त्रखण्डधारिणो निरतिशयतपस्युद्यता भवन्ति । भिक्षवो जिनरूप. धारिणो बहुधा भवन्ति । तद्यथा-देशप्रत्यक्षवित्केवलभृदिह मुनिः स्यादृषिः प्राप्तऋद्धिरारूढश्रेणियुग्मो जिनयतिरनगारोऽपरः साधुवर्गः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्तिप्राप्तो बुध्द्यौषधीशो विविधनयपटुर्वि. श्ववेदी क्रमेण ॥ १ ॥ तक्रियाश्च प्राक्प्रबन्धेनोक्तास्तद्वद्वर्णक्रियाश्च व्याख्याता ॥ २० ॥ अथारम्भविरतं द्वाभ्यामाहनिरूढसप्तनिष्ठोऽङ्गिघाताङ्गत्वात्करोति न ।
नं कारयति कृष्यादीनारम्भविरतस्त्रिधा ॥ २१ ॥ टीका-- न करोति न कारयति च कोऽसावारम्भविरतः श्रावकः । कान्, कृष्यादीन् कृषिसेवावाणिज्यादिव्यापारान् । न पुनः स्नपनदानपूजाभिधानाद्यारम्भान् । तेषामङ्गिघाताङ्गत्वाभावात् । प्राणिपीडापरिहारेणैव तत्सम्भवात् । वाणिज्याद्यारम्भादपि तथा सम्भवस्तर्हि विनिवृत्तिर्न स्यादिति चेदे. बमेतत् । कथं, त्रिधा । कस्मात्, अङ्गिघाताङ्गत्वात् प्राणिवधनिबन्धनत्वात् । कथम्भूतो भूत्वा, निरूढसप्तनिष्ठः निष्ठितप्राक्सप्तप्रतिमासंयमः पुत्रादीन प्रत्यनुमतेः कदाचिन्निवारयितुमशक्यत्वान्मनोवाक्कायैः कृतकारिताभ्यामेव सावद्यारम्भान्निवर्तते इत्यत्र तात्पर्यार्थः ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org