________________
१८६.
सागारधर्मामृते
र्तन्ते । के, क्रूराः ब्रह्मराक्षसादयः । केन, नाम्ना सञोच्चारणमात्रेण । किं पुनः सन्निधानेनेत्यपिशब्दार्थः । केषां, निर्मलब्रह्मचारिणां निरतिचारब्रह्मचर्य भाजाम् ॥ १८ ॥ प्रसङ्गवशाब्रह्मचर्याश्रमं किञ्चिब्याचष्टे
प्रथमाश्रमिणः प्रोक्ता ये पञ्चोपनयादयः ।
तेऽधीत्य शास्त्रं स्वीकुर्युर्दारानन्यत्र नैष्ठिकात् ॥ १९ ।। टीका-ये प्रोक्ताः परमागमे प्रतिपादिताः । के, प्रथमामिणः मौञ्जीबन्धनपूर्वव्रतानुष्टायिनः । कति, पञ्च । के, ते उपनयादयः उपनय आदिर्येषामवलम्बादीनां ते । तत्र उपनयब्रह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा गृहिधर्मानुष्ठायिनो भवन्ति । अवलम्बब्रह्मचारिणः क्षुल्लकरूपेणागममभ्यस्य परिगृहीतगृहावासा भवन्ति । अदीक्षाब्रम्हचारिणो वेषमन्तरेणाभ्यस्तागमा गृहधर्मनिरता भवन्ति । गूढब्रम्हचारिणः कुमारश्रमणाः सन्तः स्वीकृतागमाभ्यासा बन्धुभिदुःसहपरिषहैरात्मना नृपतिभिी निरस्तपरमेश्वररूपा गृहवासरता भवन्ति । नैष्ठिकब्रम्हचारिणः समधिगतशिखालक्षितशिरोलिङ्गा गणधरसूत्रोपलक्षितवक्षोलिङ्गाः शुक्लरक्तवसनकौपीनकटीलिङ्गाः तथा भिक्षावृत्तयो देवार्चनपरा भवन्ति । ते किं कुर्यरित्याह-परिगृह्णीयुः । के, ते । कान्, दारान्, पत्नीः । किं कृत्वा, अधीत्य पठित्वा । किं तत्, शास्त्रमुपासकाध्ययनादि श्रुतं । कथमन्यत्र । कस्मात्, नैष्ठिकात् नैष्ठिकं वर्जयिवेत्यर्थः ॥ १९॥ जिनदर्शने वर्णाश्रमव्यवस्था कुत्रास्तीति पृच्छन्तं प्रत्याह
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सप्तमे ।
चत्वारोऽङ्गे क्रियाभेदादुक्ता वर्णवदाश्रमाः ॥२०॥ 'टीका-उक्ताः प्रीताः । के, आश्रमाः आ शास्त्रोक्तकालात् श्राम्यन्ति यथास्वं तपस्यन्तीत्याश्रमाः । किंवत्, वर्णवत् ब्राह्मणादयो वर्णा यथा। कस्मात, क्रियाभेदात् धर्मकर्मविकल्पात् । कति, चत्वारः । क्व, अङ्गे। किंविशिष्टे, सप्तमे उपासकाध्ययनाख्ये । तानेवोपदेष्टुमाह-ब्रह्मचारी गृही वानप्रस्थो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org