________________
AM
सप्तमोध्यायः ।
१८५ तत्ताहसंयमाभ्यासवशीकृतमनास्त्रिधा।
यो जात्वशेषा नो योषा भजति ब्रह्मचार्यसौ ॥१६॥ . टीका-भवति । कोऽसावसौ श्रावकः । किंविशिष्टो, ब्रह्मचारी ब्रह्मणि चारित्रे
आत्मनि ज्ञाने चरति प्रवर्तत इत्येवंवतः । यः किं, यो नो भजति न सेवते । काः, योषाः स्त्रीः । किंविशिष्टाः, अशेषाः मानवीदेवीस्तिरश्चीस्तत्प्रतिकृतिश्च । कदा, जातु कदाचिद्दिवा रात्रौ च । कथं, त्रिधा त्रिविधेन । कथम्भूतो भूत्वा तदित्यादि-स प्राक् प्रतिमाषट्कनिर्दिष्टः तादृक् क्रमोपचित: संयमः प्राणेन्द्रियपरिहाररूपापहृतसंयमैकदेशस्तस्याभ्यासो भावना तेन वशीकृतं स्वाधीनता नीतं मनश्चित्तं येन स तथोक्तः ॥ १६ ॥ ब्रह्मचारिणं श्लाघते--
अनन्त शक्तिरात्मेति श्रुतिर्वस्त्वेव न स्तुतिः ।
यत्स्वद्रव्ययुगात्मैव जगजैत्रं जयेत्स्मरम् ॥ १७ ॥ टीका--भवति । काऽसौ, श्रुतिराप्तोपदेशः । कथं, इति एवंस्वरूपा । भवति । कोऽसावात्मा पुरुषः । किंविशिष्टोऽनन्तशक्तिः अनन्ता निःसीमाः शक्तयो अर्थक्रियाकारिसामर्थ्यानि यस्य सः अनन्तशक्तिः । इति श्रुतिः । किं भवति, वस्त्वेव वस्तुविषयैव । न भवति सा । सा किं, स्तुतिः गुणाल्पत्वे सति तद्वहुत्वकथनं । कुत इत्याह-यद्यस्मात् जयेत् प्रतिबन्नीयात् । कोऽसावास्मैव । किंविशिष्टः, स्वद्रव्ययुक् परद्रध्यव्यावर्तनेन आत्मद्रव्यं समादधानः । कं, स्मरं कन्दर्प । किंविशिष्टं, जगजैत्रं जगतां परद्रव्यप्रवृत्तिमतां प्राणिनां जैत्रमभिभावुकं ॥ १७ ॥ मन्दमत्यनुजिघृक्षया ब्रह्मचर्यमाहात्म्यमाह
विद्या मन्त्राश्व सिध्यन्ति किङ्करन्त्यमरा अपि ।
क्रूराः शाम्यन्ति नाम्नाऽपि निर्मलब्रम्हचारिणाम्।।१८।। टीका-सिद्धयन्ति वरप्रदा भवन्ति । काः, विद्याः साधितसिद्धाः। मन्त्राश्च पठितसिद्धाः । तथा किकरन्ति किङ्करा इव आचरन्ति । के, अमराः देवाः किं पुनर्मानवास्तिर्यञ्चो वेत्यपिशब्दार्थः । तथा शाम्यन्ति उपसर्गकरणानिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org