________________
सागारधर्मामृते
चेत्यपिशब्दार्थः । गृहस्थस्य हि स्वदारान्प्रति प्रेम हव्यापारश्च दुःखं प्रतिपेदे। सा का, यन्नामापि यस्याः सज्ञाऽपि श्रुता भवति । कस्यै, मुदे प्रीतये। किं पुनदर्शनादिकमित्यपिशब्दार्थः ॥ १३ ॥ एतस्य रात्र्यादावपि मैथुनविनिवृत्तिमुपपादयन्नाह
रात्रावपि ऋतावेव सन्तानार्थमृतावपि ।
भजन्ति वशिनः कान्तां न तु पर्वदिनादिषु ॥ १४ ॥ टीका-भजन्ति सेवन्ते । के, वशिनो जितेन्द्रियाः ।कां, कांतां । प्रियां। क, ऋतावेव पुष्पदर्शनोत्तरभाविचतुर्थदिवसस्नानानन्तरमेव नान्यदा । क,रात्रावपि निश्यपि । तथा ऋतावपि सन्तानार्थमेव ते भजन्ति तां न विषयसुखार्थ । एवशब्दोऽत्र सन्दशकन्यायेन उभयत्र योज्यः । न तु पुनः कथमपि वशिनस्त्रियं भजन्ति । केषु, पर्वदिनादिषु पर्वदिनानि धर्मकर्मानुष्ठानदिनान्यष्टम्यादीनि आदिशब्देन अमावास्याग्रहणादीनि गृह्यन्ते ॥ १४ ॥
अधुना चारित्रसारादिशास्त्रमतेन रात्रिभक्तवतं निरुक्त्या लक्षयन् रत्नकरण्डकादिप्रसिद्ध तदर्थ कथयति
रात्रिभक्तवतो रात्रौ स्त्रीसेवावर्तनादिह ।
निरुच्यतेऽन्यत्र रात्रौ चतुराहारवर्जनात् ॥ १५ ॥ टीका-निरुच्यते व्युत्पाद्यते । कोऽसौ, रात्रिभक्तवतः समासशब्दः । क्व, इह अस्मिन् चारित्रसारादिशास्त्रानुसारिणि ग्रन्थे । कस्मात्, रात्री निशि स्त्रीसेवाया वर्तनात् रात्रौ भक्तं स्त्रीभजनं व्रतयति रात्रिभक्तवत इति तच्छब्दस्य व्युत्पादनात् । अन्यत्र पुना रत्नकरंडकादिशास्त्रे रात्रिभक्तवतशब्दो निरुच्यते । कस्मात्, रात्री चतुराहारवर्जनात् रात्रौ भक्तं चतुर्विधमप्याहारं व्रतयति प्रत्याख्यातीति रात्रिभक्तवत इति तच्छब्दव्युत्पादनात् । यदाह स्वामी--अन्नं पानं खाद्यं लेां नानाति यो विभावर्याम् । स च रात्रिभक्तविरतः सत्त्वेष्वनुकम्पमानमनाः ॥ १५ ॥
अथ ब्रह्मचर्यस्थानं व्याचष्टे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org