________________
सप्तमोध्यायः ।
१८३
- टीका - व्रतयति व्रतत्वेन प्रत्याख्याति । कोऽसौ, पञ्चमः सचित्तविरत्युद्यतः । किं तत्, तच्च तदपि । किंविशिष्टो, यतः अङ्गिपञ्चत्वचकित: अङ्गिनां भक्ष्यमाणसचित्तद्रव्याश्रितजीवानां पञ्चत्वं मरणं अङ्गिपञ्चत्वं तस्माच्चकितो भीतो यतः । यत्किं यजिहासितं त्यक्तुमिष्टं शीलोपदेशस्याभ्यासदशाविषयत्वात् । किं तत्, सचित्तभोजनं जीवाश्रितद्रव्यवल्भनं । केन, व्रतिकेन । केन कृत्वा, मलत्वेन भोगोपभोगपरिमाणाख्यशीलातिचारत्वेन । क्क, प्राक् शीलोपदेशसमये । स्वामी पुनर्भोगोपभोगपरिमाणशीलातिचारानन्यथा पठित्वा पञ्चमप्रतिमामेवमध्यगीष्ट -- मूलफलशाकशाखाकरीरकन्दप्रसूनबीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥ ११ ॥
अथ रात्रिभक्तव्रतं चतुःश्लोक्या व्याकरिष्यन् आदौ तल्लक्षणमाह
स्त्रीवैराग्यनिमित्तैकचित्तः प्राग्वृत्तनिष्ठितः । यस्त्रिधाऽह्नि भजेन स्त्रीं रात्रिभक्तत्रतस्तु सः ॥ १२ ॥ टीका -- स तु श्रावको भवति । किंविशिष्टः, रात्रिभक्तव्रतः । यः किं, यो न भजेत् न सेवेत् । कां, स्त्रीं निःशेषामपि योषां । क, अह्नि दिने । कथं, त्रिधा मनोवाक्कायकृतकारितानुमतैः । किंविशिष्टः सन् स्त्रीत्यादि - स्त्रीवैराग्यनिमित्तानि कामदोषाः स्त्रीदोषाः स्त्रीसङ्गदोषा अशौचमार्यसङ्गतिश्चेति पञ्च तेष्वेकचित्तो यः स यथोक्तः तदेकाग्रमना इत्यर्थः । कथम्भूतो भूत्वा प्राग्वृतनिष्ठितः पूर्वोक्तप्रतिमापञ्चकाचारनिरूढः ॥ १२ ॥
9
षष्टप्रतिमानिष्टानभिष्टौति
अहो चित्रं धृतिमतां सङ्कल्पच्छेद कौशलम् । यन्नामापि मुदे साsपि दृष्टा येन तृणायते ॥ १३ ॥
―
टीका - अहो चित्रमाश्चर्यं वर्तते । किं तत्, संकल्पच्छेदकौशलं मनोव्यापारनिरोधसामर्थ्यं । केषां धृतिमतां संतोषभावनायुक्तानां पुंसां । येन किं, येन संकल्पच्छेद कौशलेन तृणायते तृणवत्प्रतिभाति अभोग्यतयाऽऽत्मानं तेषां दर्शयतीत्यर्थः । काऽसौ, साऽपि कान्ता । किंविशिष्टा सती, दृष्टा चक्षुचरीकृता । तथा आवृत्या सा कान्ता दृष्टाऽपि किं पुनः श्रुता संकल्पिता
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only