________________
१८२
सागारधर्मामृते
wwwwwwwwww
टीका-भोक्ष्यते काका न भक्षयिष्यतीत्यर्थः । कोऽसौ, स पञ्चमसंयम.स्थानसाधनोद्यतः श्रावकः । कानि, हरितानि हरितावस्थवनस्पतीन् । किंविशिष्टानि, आश्रितानन्तनिगोतानि आश्रितानि संसक्तानि अनन्तानि निगोतानि निगोताख्याः साधारणशरीरवनस्पतिकालिका येषु तानि । उक्तं चार्षे ब्राह्मणसृष्टिप्रस्तावे-सन्त्येवानन्तशो जीवा हरितेष्वंकुरादिषु । निगोता इति सार्वज्ञ देवास्माभिः श्रुतं वचः ॥१॥ यः किं, यो अतिऋतीयते पाक्षिकाद्य. पेक्षया अतिशयेन घृणां करोति । किं कुर्वन्, स्पृशन् परामृशन् । कानि तथाभूतहरितानि । केन, पादेन चरणेन किं पुनर्हस्तादिनेत्यपिशब्दार्थः । कस्मात्, अर्थवशात् प्रयोजनानुरोधात् । किं पुन: प्रयोजनाभावात् । प्रयोजनं विना स्थावरविराधनादपि निवृत्तिप्रतिज्ञानात् ॥ ९॥ . सचित्तविरतेभ्यः श्लाघते
अहो जिनोक्तिनिपुतिरहो अक्षजितिः सताम् ।
नालक्ष्यजन्त्वपि हरित् प्सान्त्येतेऽसुक्षयेऽपि यत्॥१०॥ टीका-अहो आश्चर्य वर्तते । काऽसौ, जिनोक्तिनिर्णीतिः जिनागमनिश्चयः केषां, सतां प्रकरणात् सचित्तविरतिप्रयतानां । तथा अहो आश्चर्य वर्तते । काऽसौ, अक्षजितिः इन्द्रियजयः । केषां, सताम् । अत्रोपपत्तिमाह-यद्यस्मात् न प्सान्ति न भक्षयन्ति । के, एते सन्तः । किं तत्, हरित् हरितं । किंवि. शिष्टमपि, अलक्ष्यजन्त्वपि अलक्ष्याः अस्मदाद्यपेक्षया केवलागमगम्यत्वात् प्रत्यक्षाद्यसंवेद्याः जन्तवः प्राणिनो यस्मिन् तदलक्ष्यजन्तु हरितं वस्तु । किं पुनदृश्यानुमेयप्राणिकमित्यपिशब्दार्थः । क सति, असुक्षयेऽपि असूनां क्षयः प्रलयः असुक्षयस्तस्मिन्नपि प्राणेषु नश्यत्स्वपि । पुनः, प्रकारान्तरेण जीविते सम्भवतीत्यपिशब्दार्थः। अत्रालक्ष्यजन्त्वपीत्यनेन जिनागमप्रामाण्यविश्वासोऽ. सुक्षयेऽपीत्यनेन च जितेन्द्रियत्वं समर्थ्यते ॥ १० ॥ ___ साम्प्रतं भोगोपभोगपरिमाणशीलातिचारत्वेनोक्तं सचित्तभोजनमिह त्यज्यमानं प्रतिमाभावं यातीत्युपदिशति
सचित्तभोजनं यत्पाङ् मलत्वेन जिहासितम् । .. व्रतयत्यङ्गिपञ्चत्वचकितस्तच्च पञ्चमः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org