________________
सप्तमोध्यायः ।
निशां नयन्तः प्रतिमायोगेन दुरितच्छिदे | ये क्षोभ्यन्ते न केनापि तान्नुमस्तुर्यभूमिगान् ॥ ७ ॥
टीका - नुमः स्तुमो वयं । कान् तान् तुर्यभूमिगान् चतुर्थी संयमविशेपदवीमारूढान् | ये किं, ये न क्षोभ्यन्ते समाधेर्न प्रच्याव्यन्ते । केन, केनापि परिपणोपसर्गेण वा । किं कुर्वन्तः, नयन्तो लङ्घयन्तः । कां, निशां पर्वरात्रिं । कैद, प्रतिमायोगेन संयतवत् कायोत्सर्गास्थानेन । कस्यै, दुरितच्छिदे अशुभकर्मनिर्जरणार्थं ॥ ७ ॥
1
अथ सचित्तविरतस्थानं चतुःश्लोक्या व्याचष्टे
हरीताङ्कुरबीजाम्बुलवणाद्यमासुकं त्यजन् । जाग्रत्कृपश्चतुर्निष्ठः सचित्तविरतः स्मृतः ॥ ८ ॥
१८१
टीका - स्मृतः । सूत्रज्ञैराम्नातः । कोऽसौ सचित्तविरतश्रावकः । किं कुर्वन् त्यजन् वर्जयन् अभक्षयन्नित्यर्थः । किं तत्, हरीताङ्कुरबीजाम्बुलवणादि अङ्कुरः प्ररोहः बीजं प्ररोहणद्रव्यं अम्बु जलं लवणं सैन्धवादि आदिशब्देन कन्दमूलफलपत्रकरीरादि, अंकुरश्च बीजं च अंकुरबीजमुपलक्षणात् त्वक्पत्रादि, हरीतमम्लानार्द्रावस्थं । हरीतं च तदंकुरबीजं च हरीतांकुरबीजं तच्चाम्बुलवणादि च हरीतांकुरबीजाम्बुलवणादि । किंविशिष्टमप्रासुकमनग्निपक्कमित्यर्थः । अत्र च द्वितीयपादे नवाक्षरत्वं न दोषाय अनुष्टुभि नवाक्षरस्यापि पादस्य शिष्टप्रयोगे क्वापि क्वापि दृश्यमानत्वात् । यथा-ऋषभाद्या वर्द्धमानान्ता जिनेन्द्रा दश पंच वेत्यादिषु । अथवा हरीताङ्कुरबी जालव`णाद्यप्रासुकं त्यजन्निति पाठः । अत्र आपो जलं । किंविशिष्टोऽसौ, जाग्रत्कृपो यतः जाग्रती नित्यं हृदि स्फुरन्ती कृपा अनुकम्पा यस्य स जाग्रत्कृपो `दयामूर्तिरित्यर्थः । कथम्भूतो भूत्वा, हरीताङ्कुरादिकमभक्षयन्सचित्तविरतः स्मृतः चतुर्निष्टः चतसृषु पूर्वोक्तप्रतिमासु निष्ठा निर्वाहो यस्य स च जाग्रत्कृप इति समर्थयते—
'चतुर्निष्टः ॥ ८ ॥
पादेनापि स्पृशन्नर्थवशाद्योऽतिऋतीयते । हरितान्याश्रितानन्तनिगोतानि स भोक्ष्यते ॥ ९ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org