________________
षष्टोध्यायः ।
१७३
चित्रं पाणिगृहीतीयं कथं मां विष्वगाविशत् ।
यत्पृथग्भावितात्माऽपि समवैम्यनया पुनः ॥ ३५ ॥ टीका-चित्रं यस्याः खलु पाणिर्गृह्यते सा कथं सर्वात्मना ग्राहकात्मानं प्रविशतीति विस्मयो मे । कथं केन प्रकारेण आविशत् प्रविष्टा । काऽसौ, इयं दृश्यमाना पाणिगृहीती परिणीतस्त्री। कं, मां परिणेतारं । कथं, विष्वक समन्तात् मामात्ममयं कृतवतीत्यर्थः। अत्रोपपत्तिमाह-यद्यस्मात् । समवैमि तादात्म्यं प्रतिपद्ये अहं । कथं,सह । कया,अनया अहमेवेयमियमेवाहमित्यभे. दाध्यवसायपरिणतो भवामीत्यर्थः। कथं,पुनर्भूयः । किंविशिष्टोऽपि सन् ,पृथग्भावितात्माऽपि पृथगेतस्या भेदेन इयमन्या अहमन्य इति कोऽनया सह ममाभेदप्रत्यय इति तत्त्वज्ञानेन भावितो मुहुर्मुहुश्चिन्तित आत्मा अहंकारास्पदमन्तस्तत्त्वं येन स तथोक्तः ।किं पुनर्मोहवशादभेदभावनापरिणत इत्यपिशब्दार्थः।३५। स्त्रीनिवृत्तिमात्मनो निरूप्य वित्तमुपपत्या प्रतिक्षिपन्नाह
स्त्रीतश्चित्त निवृत्त चेन्ननु वित्तं किमीहसे ।
मृतमण्डनकल्पोहि स्त्रीनिरीहे धनग्रहः ॥ ३६ ॥ टीका--चेदिति पराभिप्रायद्योतने। हे चित्त अंतःकरण । यदि निवृत्त विवेकबलाघ्यावृत्तं । किं तत् कर्तृ, त्वं । कस्मात् , स्त्रीतः स्त्रियाः सकाशात् स्त्रियं नेच्छामीत्यभिप्रेषि यदि त्वमित्यर्थः । ननुरमर्षे न मृष्याम्यहमिमं त्वदभिप्रायमित्यर्थः । तदा किमिति प्रश्नाक्षेपे तदा किमीहसे किं वाञ्छसि त्वं हे चित्त । किं तद्वित्तं धनं । स्त्रीनिवृत्तस्य धनमिच्छतः किमनुपपन्नमित्यत्राह-हि यस्मात् भवति । कोऽसौ, धनग्रहः द्रविणार्जमरक्षणवर्जनाभिनिवेशो धनस्वीकारो वा । किंविशिष्टो मृतमण्डनकल्पः मृतस्य मण्डनमिव । क, स्त्रीनिरीहे स्त्रियां निःस्पृहे । यथा मृतकशरीरे क्रियमाणं मण्डनं तद्भोक्तुरभावान्निष्फलं तथा स्त्रियादिविषयविमुखस्य परिगृह्यमाणं धनमिति भावः । धनस्य हि विषयसुखसाधनं फलत्वेन प्रसिद्धं । तत्र च कामिन्य आलम्बनविभावत्वेन मुख्याः सौधोद्यानादयश्चोद्दीपनविभावत्वेन गौणाः । यस्य च नास्ति स्त्रियाम. भिलाषस्तस्य किमितरविषयैरिति ॥ ३६ ॥
एवं निर्वेदं भावयतः परमसामायिकभावनार्थं सप्तश्लोकीमाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org