________________
१७२
सागारधर्मामृतेwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm भुवनत्रयातिशायि । कस्मै, भेदज्ञानाय देहात्मव्यतिरकबोधार्थ । इदानीमास्मदृष्टान्तन विषयाभिलाषपरतंत्रतया दोषभूयिष्ठं गार्हस्थ्यं जानतोऽपि त्यक्तुम. शक्तांस्तिरस्कुर्वन्नाह--धिगित्यादि । धिक् निन्दामीत्यर्थः । कान्, मादृश; अहमिव दृश्यन्ते विषयाशावशवर्तितयोपलभ्यन्त इति मादृशः । मया सदृशाः नाविभूततत्त्वज्ञानत्वेऽपि विषयोपभोगपरित्यागासमर्थान् । किंविशिष्टान्, यतः कलत्रेच्छेत्यादि । कलत्रस्य भार्याया इच्छा मनोरथः छन्द इति यावत् कलत्रेच्छा सैव तन्त्रं प्रधानं यत्र तत्कलत्रेच्छातन्त्रं अथवा कलत्रे इच्छा अभिलाषः कलत्रेच्छा तस्यां तन्त्रमायत्तं कलत्रेच्छातन्त्रं तदधीनवृत्ति गृहस्थस्य नित्यनैमित्तिकानुष्ठानस्थस्य द्वितीयाश्रमिणो भावः कर्म वा गार्हस्थ्यं । कलेनेच्छा. तन्त्रं च तद्गार्हस्थ्यं च कलत्रेच्छातन्त्रगार्हस्थ्यं तेन दुःस्थिता दुरवस्था विविधदुराधिबाधाकुलितास्तान् । हेतुपरत्वेनायं निर्देशः ॥ ३३ ॥
स्वयमभिलाष्यमाणाया उपशमश्रियः स्त्रियाश्चात्माकर्षणविषये बलाबलं चिन्तयति
इतः शमश्रीः स्त्री चेतः कर्षतो मां जयेन का।
आ ज्ञातमुत्तरैवात्र जेत्री या मोहराट्चमूः ॥ ३४ ॥ टीका-कर्षतः स्वस्याभिमुखं नयतो द्वे । कं, मां अतीन्दियन्द्रियक सुखवि. शेषज्ञं । तत्र तावत् कर्षति । काऽसौ, शमश्रीः प्रशमसुखसम्पत् ।कं, मां । व, इतः अस्मिन्नेकस्मिन्पक्षे तथा कर्षति स्त्री मां। क, इतोऽन्यस्मिन्पक्षे नुर्वितर्के । अनयोः का कतरा जयेत् मदाकर्षणे बलवती भवेत् । संशयोऽत्र मे। अथवा आः स्मृतमाप्तोपदेशबलादनुभूतमेतयोर्बलाबलम् । सम्प्रत्यपि ज्ञातं निश्चितं । यदि वा आः संतापप्रकोपयोाख्ययः । आद्यपक्षे भविध्यति । काऽसौ, अत्र एतयोर्मध्ये । उत्तरैव स्त्री न शमश्रीः । किंविशिष्टा, जेत्री मदाकर्षणे शमश्रियोऽभिभवित्री न स्त्रियाः शमश्रीः । या किं, या निश्चिता मया । किंविशिष्टा, मोहराट्चमूः मोहोऽन्त्र चारित्रावरणोदयः स एव राट् राजा अधृष्यभावत्वात् मोहराजश्वमूः सेना । यथा राजा प्रतापित्वेन प्रतिपक्षं सेनया जयति तथा मोहः स्त्रियेति भावः ॥ ३४ ॥ कलत्रदुस्त्यजत्वं भावयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org