SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ षष्टोध्यायः। याणि । भवति च । कोऽसौ, विषयग्रहः । स्पर्शाद्यर्थपरिच्छेदग्रहः। कैः, एतैः करणैः तथा भवति । कोऽसौ, बन्धः शुभाशुभर्कमपुद्गलादानं । कस्मात्. अतः विषयग्रहात् । कथं, पुनरेव भूयोऽपि । यत एवं तत्तस्मात् संहरामि निर्मूलयाम्यहं । कं, एनं बन्धमूलं विषयग्रहम् ॥ ३१ ॥ विषयेष्वपि योषिदभिलाषस्यात्यन्तं दुर्निवारत्वात् तन्निग्रहोपायमनुचिन्तयन्नाह ज्ञानिसङ्गतपोध्यानैरप्यसाध्यो रिपुः स्मरः । देहात्मभेदज्ञानोत्थवैराग्यणैव साध्यते ॥ ३२ ॥ टीका–साध्यते निगृह्यते । कोऽसौ, स्मरः मैथुनसंज्ञासंस्कारोबोधः । किंविशिष्टो, रिपुः ऐहिकामुत्रिकपुरुषार्थनंशहेतुतयाऽपकर्ता । केन कळ करणेन वा, देहेत्यादि देहश्चौदारिकादिशरीरत्रयं आत्मा जीवानंदमयः पुमान् देहश्च आत्मा च देहात्मानौ तयोर्भेदेन पृथक्त्वेन भेदस्य वा ज्ञानं प्रतिपत्तिस्तस्मादुत्था उत्थानमुद्भवो यस्य तदेहात्मभेदज्ञानोत्थं तच्च तद्वैराग्यं च भवाङ्गभोगनिर्वेदः उपेक्षा वा तेनैवापदादिसमुत्थेन वैराग्यणात्मावमाननलक्षगेन । किंविशिष्टोऽसौ, असाध्यः साधयितुमशक्यो व्यभिचारदर्शनात् । कैः , ज्ञानिसंगतपोध्यानः ज्ञानिनामात्मदर्शिनां संगः संस! ज्ञानिसंगः, तपः कायक्लेशादिलक्षणमाचरणं, ध्यानं पदपदार्थादिचिन्तनं, ज्ञानिसश्च तपश्च ध्यानं च ज्ञानिसङ्गतपोध्यानानि तैर्व्यस्तैः समस्तैर्वा बाह्यलोकानां कन्दर्पशत्रुनिग्रहकत्वेन प्रसिद्धैः । अपिर्विस्मये ॥३२॥ आत्मदेहान्तरज्ञानार्थितया सन्यस्तसमस्तसङ्गानां प्राचां श्लाघापूर्वकमास्मानं कलत्रमात्रत्यागेऽप्यसमर्थं गर्हमाणः प्राह धन्यास्ते येऽत्यजन् राज्यं भेदज्ञानाय तादृशम् । घिमादृशकलत्रेच्छातंत्रगार्हस्थ्यदुःस्थितान् ॥ ३३ ॥ टीका--ते भरतसगरादयो भवन्ति । किंविशिष्टाः, धन्याः तपःश्रुताभ्या. सात्मसात्कृत-सुकृतविशेषफलोपभोगान्ते, सुदुस्त्यजसाम्राज्यलक्ष्मीपरित्यागितया महतामपि श्लाघ्याः । ये किं, ये अत्यजन् जरत्तणमिव त्यक्तवन्तः । किं तत्, राज्यं । किंविशिष्टं, तादृशं पूजार्थाजैश्वर्यवीर्यपरिजनकामभोगादिभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy