SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७० सागारधर्मामृतेवति । कोऽसौ, चेतन आत्मा । कथं, सद्यस्तरक्षण एव । किंविशिष्टः सन्, सम्यग्भावितनिर्वेदः यथावदभ्यस्तवैराग्यः ॥ २८ ॥ संसारनिर्वेदार्थमाह दुःखावर्ते भवाम्भोधावात्मबुध्याऽध्यवस्यता । मोहाद्देहं हहाऽऽत्माऽयं बुद्धोऽनादि मुहुर्मया ॥ २९ ॥ टीका-हहा कष्टं । बद्धो ज्ञानावरणादिकर्मपरतंत्रीकृतः । कोऽसावयं स्वसंवेदनवेद्य आत्मा जीवः । केन, मया आत्मना । कथं, मुहुर्वारंवारं । कथमनादि आदिरहितं । किं कुर्वता, अध्यवस्यता निश्चिन्वता । कं, देहं । कया, आत्म. बुध्द्या देह एवाहमिति संकल्पेन । कस्मात्, मोहात् अविद्यासंस्कारात् । क, भवाम्भोधौ संसारसागरे। किंविशिष्टे, दुःखावर्ते दुःखानि नारकादिभववेदना आवर्ता जलभ्रमणानीव अनियतोत्थायत्वाद्दर्निवारत्वाच्च यत्र स दुःखावर्तस्तस्मिन् ॥ २९ ॥ तदिदानी किं करोमीत्याह--- तदेनं मोहमेवाहमुच्छेत्तुं नित्यमुल्सहे । मुच्येतैतत्क्षये क्षीणरागद्वेषः स्वयं हि ना ॥ ३०॥ टीका-तत्तस्मादुल्सहे प्रयते अहं । किं कर्तुमुच्छेत्तुं क्षपयितुं । कमेनं प्रतीय. मानं मोहमज्ञानं 1 न देहादिकमित्येवशब्दार्थः । कथं, नित्यं सन्ततं हि यस्मात् मुच्येत मुक्तो भवेत् । कोऽसौ, ना पुरुषो न प्रधानादिकं । किंविशिष्टः सन्, क्षीणरागद्वेषः । कथं, स्वयमात्मना प्रयत्नमन्तरेणैव। व सति, एतत्क्षये मोहापगमे सति मोहमूलत्वाद्रागद्वेषयोः ॥ ३० ॥ इदानी बन्धमूलामनर्थपरम्परां परामृशन् पुनबंधानुबन्धिनं विषयसेवाभिनिवेशं संहर्तुं प्रतिज्ञां करोति बन्धादेहोत्र करणान्येतैश्च विषयग्रहः । बन्धश्च पुनरेवातस्तदेनं संहराम्यहम् ॥ ३१ ॥ टीका-भवति । कोऽसौ, देहः शरीरं । कस्मात् , बन्धात् पुण्यपापा. स्मककर्मविपाकात् । अत्र च देहे भवन्ति । कानि, करणानि स्पर्शनादीन्द्रि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy