________________
षष्ठोध्यायः ।
१६९
NAM
ष्टानि भवन्तीति मनसि कृत्वा । कानि, जिनागमरहस्यानि अर्हसिद्धान्तस्यैदम्पणि । केन, विनयेन प्रश्रयेण । कथं, सह । कैः,गुर्वादिभिः। किं कृत्वा, विश्रम्य भोजनश्रममपनीय । गुरवोऽत्र शास्त्रोपदेष्टारः । सब्रह्मचारिणः सहाध्यायिनः श्रेयोऽर्थिन आत्महितकामाः ॥ २६ ॥ ततश्चसायमावश्यकं कृत्वा कृतदेवगुरुस्मृतिः।। न्याय्ये कालेऽल्पशःस्वप्याच्छक्त्या चाब्रह्म वर्जयेत् ॥२७॥ टीका--स्तप्यात् शयीतासौ । कियत्, अल्पशः अल्पं । क्व, काले। किंविशिष्टे, न्याय्ये न्यायादनपेते । न्याय्यश्च कालो रात्रेः प्रथमयामोऽर्द्धरात्रं वा शरीरसात्म्येन अल्पश इति च विशेषणमिति विधिः । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंकामत इति न्यायात् । स्वप्यादिति च विशेष्यं । न च तत्र विधिदर्शनावरणीयकर्मोदयेन स्वापस्य स्वतःसिद्धत्वात् । अल्पमपि च प्रशस्तं यथा भवति तथा स्वप्यादिति शसा द्योत्यते । तेन रोगमार्गश्रमादौ बह्वपि स्वप्यादिति विधिः। किंविशिष्टः सन् , कृतदेवगुरुस्मृतिः कृता देवस्याईतो गुरूणां च तदुपदेष्टणां च स्मृतिर्मनस्यारोपणं येन स तथोक्तः । किं, कृत्वा । किं तत्, आवश्यक देवार्चनं भूमिकौचित्त्येन च सामयिकादिषटकं । कदा, सायं संध्यासमये । तथा वर्जयेदसौ । किं तत्, अब्रह्म मैथुनं । कया, शक्त्या आत्मनः संयमसामर्थ्येन । उपलक्षणं चैतत् तेन यावन्न सेव्या विषयास्तावत्ताना प्रवृत्तितो व्रतयेदिति वचनाद्भोगादिनियम विना क्षणमपि स्थातुं न युक्तमिति स्मारयति ॥ २७ ॥
अथ परिणतायां रात्रौ निद्राच्छेदे सति निर्वेदादिभावनां कुर्यादित्युपदेशार्थं सप्तदश श्लोकानाह---
निद्राच्छेदे पुनश्चित्तं निदेनैव भावयेत् ।
सम्यग्भावितनिर्वेदः सद्यो निवोति चेतनः ॥ २८ ॥ टीका-भावयेत् संस्कुरूंदसौ । किं तत्, चित्तं मनः । केन, निदेन संसारशरीरविषयवैराग्येण । न पुनरर्थादिचिन्तयेत्येवशब्दार्थः । क सति, निद्राच्छेदे स्वापनिवृत्तौ । पुनःशब्दो विशेषार्थः । यतो निर्वाति प्रशमसुखमनुभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org