________________
१६८
सागारधर्मामृते
कया भुञ्जीत, मात्रया सुखजरणलक्षणया यदाह-“सायं प्राता वह्निमनवसादयन् भुञ्जति" इति । अपि च-'गुरूणामर्धसौहित्यं लघूनां नातितृप्तता । मात्र प्रमाणं निर्दिष्टं सुखं तावद्विजीर्यति ॥" व मात्रया सात्म्यं भुञ्जीत ? काले बुभुक्षाकाले। भोजनकालः तद्विस्तरशास्त्रं त्विदं-"प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे, विशुद्धे चोद्वारे क्षुदुपगमने वातेऽनुसरति ॥ तथाऽग्नावुदृक्ते विशदकरणे देहे च सुलधौ, प्रयुञ्जीताहारं विधिनियमितं कालः स हि मतः।" किं कृत्वा, सन्तर्प्य सम्यक् प्रीणयित्वा । कानि, पात्राणि प्रागुक्तलक्षणानि । कथं, ततस्तदनन्तरं । कस्मात् , शक्तिभक्त्यनुसारतः शक्तिभक्योरनतिक्रमेण । न केवलं पात्राणि सन्तर्प्य सर्वानप्याश्रतांश्च तिरश्चोऽपि स्वयं परिगृहीतान् सन्तर्प्य सन्तोष्येत्यर्थः । कालविशेषोपदेशेन च माध्यातिकदेवपूजाभोजनयोर्नास्ति कालनियम इति बोधयति । तीव्रबुभुक्षायां हि मध्याह्लादयंगपि गृहीतप्रत्याख्यानं तिरयित्वा देवपूजादिपूर्वकं भोजनं कुर्वन् न दुष्यति ॥ २४ ॥ .. लोकद्वयाविरोधीनि द्रव्यादीनि सदा भजेत् ।
यतेत व्याध्यनुत्पत्तिच्छेदयोः स हि वृत्तहा ॥ २५ ॥ टीका-भजेत् सेवेतायं । कानि, द्रव्यादीनि द्रव्यक्षेत्रकालभावकर्मसहायादीनि । किंविशिष्टानि, लोकद्वयाविरोधीनि इहलोके परलोके च पुरुषार्थानुपघातकानि । क्व, सदा सर्वदा तथा यतेत तात्पर्य कुर्यात् । कयोाध्यनुत्पत्तिच्छेदयोः व्याधेः ज्वरादिरोगस्यानुत्पत्तावप्रादुर्भावे छेदे च निवर्तने । कुत इत्याह-हि यस्मात् भवति । कोऽसौ, स व्याधिः । कथम्भूतो, वृत्तहा संयमस्य हन्ता ।। २५ ॥ तदुत्तरकरणीयनिर्णयार्थमाह
विश्रम्य गुरुसब्रह्मचारिश्रेयोऽर्थिभिः सह ।
जिनागमरहस्यानि विनयेन विचारयेत् ॥ २६ ॥ टीका-ततश्च विचारयेत् इदमित्थं भवति न वेति सम्प्रधारयेदसौ । गुरुमुखात् श्रुतान्यपि शास्त्ररहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org