________________
षष्ठोध्यायः।
१६७ श्रीकामः श्रीनाथं श्रीवणे स्थापयाम्युच्चैः" ॥ किं कृत्वा, विशोध्य रत्नाम्बुकुशाग्निना सन्तर्पणविधिभिः शोधयित्वा । का, तदिलां स्नपनभूमि। किं कृत्वा, आश्रत्य कर्तव्यतया प्रतिज्ञाय । किं तत्, स्नपनमभिषेकं । अत्र आश्रुत्य स्नपनमिति प्रस्तावना, विशोध्येत्यादि पुराकर्म, न्यस्येति स्थापना, अन्तमाप्येति सन्निधापनं, इष्टदिगित्यादि पूजेति प्रतिपत्तव्यम् । षड्विधं हि देवसेवनामाहुः। तद्यथा-प्रस्तावना पुराकर्म स्थापना सन्निधापनम् । पूजा पूजाफलं चेति षड्विधं देवसेवनम् ॥ १ ॥ एतजिनस्नपनादिविधानसूचनामानं विस्तरतस्त्वेतत्पूर्वाचार्यकृतस्नानशास्त्रेवस्मत्कृतनित्यमहोदयाख्यस्नानशास्त्रे च दृष्टव्यम् ॥ २२ ॥ यज्ञान्तरोपदेशार्थमाह
सम्यग्गुरूपदेशेन सिद्धचक्रादि चाचैयेत् ।
श्रुतं च गुरुपादांश्च को हि श्रेयसि तृप्यति ॥ २३ ॥ टीका-अर्चयेच्चासौ । किं तत्, सिद्धचक्रादि सिद्धचक्रं लघु बृहद्वा आदि. शब्देन पार्श्वनाथयन्त्रं गणध्नरवलयं सारस्वतयन्त्रमन्यद्वा सम्यक्त्वसंयमाविरोधेन दृष्टादृष्टफलप्रसादकत्वेन जिनशासने प्रसिद्धं । एतच्च रहस्यभावात्पदस्थध्यानप्ररूपणावसरे प्रपंचयिष्यते । केन तत्पूजयेत्, सम्यग्गुरूपदेशेन अन्यथा नैष्फल्यप्रत्यवायबाहुल्यसम्भवात् । तथा श्रुतमर्चयेत् । गुरोश्च दीक्षकाचार्यस्य पादान् तृतीयोऽपि चशब्दस्त्रयाणामपि पूज्यानां तुल्यकक्षतासूचनार्थ । कुत एतद्यज्ञान्तरप्रदर्शनं ? जिनयज्ञेनैव सर्वमनोरथपरिपूर्तिसंसिद्धेरिति शङ्कायामिदमाह-को हीत्यादि । हि यस्मात् कस्तृप्यति तृप्तमात्मानं मन्यते कस्मिन्, श्रेयसि अभ्युदयनिःश्रेयससाधनार्थे कर्मणि ॥ २३ ॥
ततः पात्राणि सन्तप्र्य शक्तिभक्त्यनुसारतः।
सर्वाश्चाप्याश्रितान् काले सात्म्यं भुजीत मात्रया॥२४॥ टीका-ततो जिनयज्ञादिनिर्वर्तनानन्तरं पात्रसन्तर्पणादि कृत्वा भुञ्जीत अश्नीयादसौ । किं तत्, सात्म्यं वस्तु। सात्म्यलक्षणं यथा “ पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पंते तत्सात्म्यमिति कथ्यते ।"
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org