________________
१६६
सागारधर्मामृते
vvvvvvvvvvvvvvvvv.in
क्षालिते जलादिना निर्मलीकृते वस्त्रे परिधानोत्तरीये युनक्ति स्वांगे सम्बनातीति धौतवस्त्रयुक् ॥ २१ ॥ जिनस्नपनाद्युपास्तिविधिमाह--
आश्रुत्य स्नपनं विशोध्य तदिलां पीठ्यां चतुष्कुम्भयुक् कोणायां सकुशश्रियां जिनपतिं न्यस्यान्तमाप्येष्टदिक् । नीराज्याम्बुरसाज्यदुग्धदाधिभिः सिक्त्वा कृतोद्वर्तनं सिक्तं कुम्भजलश्च गन्धसलिलैः सम्पूज्य नुत्वा स्मरेत् ।। टीका-स्मरेत् यथाशक्ति जपेत् ध्यायेत् । कोऽसौ, माध्याह्निकक्रियाकल्पोद्यतः श्रावकः । कं, जिनपति जिनेन्द्रं । किं कृत्वा, नुत्वा नित्यवन्दनादि. विधिना वन्दित्वा । किं कृत्वा, सम्पूज्य जलादिभिरष्टाभिः सम्यगर्चयित्वा । किंविशिष्टं सन्तं, सिक्तमभिषिक्तं । कैः , कुम्भजलैः पूर्वस्थापितकलशाम्भोभिः । तथा गन्धसलिलैः सुरभिद्रव्यमिश्रोदकैः । कथं कृत्वा, कृतोद्वर्तनं एलादिचूर्णकरककषायैरुद्वर्त्य कृतनन्द्यावर्ताद्यवतारणं । किं कृत्वा, सिक्त्वा अभिषिच्य । कैः, अम्बुरसाज्यदुग्धदधिभिः अम्बूनि तीर्थोदकानि,रसा इक्षुद्राक्षाम्रादिनिर्यासाः, आज्यानि हैयङ्गवीनादिघृतानि, दुग्धानि गव्यादिक्षीराणि, दधीनि माहिषादीनि, अम्बूनि च रसाश्च आज्यानि च दुग्धानि च दधीनि चाम्बुरसादीनि पञ्च स्नानीयद्रवद्रव्याणि तैः क्रमेण जिनपतिमभिषिच्येति संबंधः । किं कृत्वा, नीराज्य पूजापुरःसरं मृत्सागोमयभूतिपि. ण्डदूवादर्भपुष्पाक्षतसचन्दनोदकैर्नीराजनं प्रापय्य । कथं यथा भवति, इष्टदिक् इष्टा यज्ञांशं प्रापिता जिनयज्ञमभिवर्द्धयन्तो वाऽनुमोदिता दिशस्त. स्था दिक्पाला दशेन्द्रादयो यत्र नीराजनकर्मणि तदिष्टदिक । अथवा इष्टाः दिशो येन सोऽयमिष्टदिग्यष्टा । किं कृत्वा, न्यस्य स्थापयित्वा । कस्यांपीठ्यां स्नपनपीठस्योपरि । किविशिष्टायां, चतुष्कुंभयुक्कोणायां चत्वारः कुंभयुजः पूर्णकलशोपेताः कोणा यस्याः सा चतुष्कुंभयुक्कोणा तस्यां । पुनः किंविशिष्टायां, सकुशश्रियां दर्भेश्चन्दननिर्मितश्रीकाराक्षरेण च सहितायां । श्रियामित्युपलक्षणं तेन व्हीकारोऽपि लेख्यः । अन्ये तु अक्षतनिर्मितं श्रीकारमेवाहुः । तदुक्तं । " निस्तुषनिर्बणनिर्मलजलाशालीयतण्डुलालिखिते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org