________________
षष्ठोध्यायः । तण्डुलादिः एधांसि इन्धनानि शाकं पत्रादिहरितकं पुष्पाम्बरादि कुसुमवस्त्र. खट्वापट्टकतृणादि ॥ १८॥
सधर्मिणोऽपि दाक्षिण्याद्विवाहादौ गृहेऽप्यदन् ।
निशि सिद्धं त्यजेद्दीनैव्यवहारं च नावहेत् ॥ १९ ॥ टीका-त्यजेदसौ । किं तत् , सिद्धं निष्पन्नमन्नं । क्व, निशि रात्री तदा ह्यन्नपाके सघातपाता परिहर्तुमशक्यौ । किं कुर्वन् , अदन् भुजानः क्व, गृहे । कस्य सधर्मिणोऽपि न परं पुत्रादेः । किं तदासीनसाधर्मिकस्यापि । कस्मात् , दाक्षिण्यात् उपरोधवशात् । क्व, विवाहादावपि न परमिष्ठभोज्यादौ । तथा नावहत् न कुर्यात् । कं, व्यवहारं दानप्रतिग्रहादिलक्षणं कर्म । कैः सह, हीनः सर्वधर्मधनादिना रहितैरल्पैवी गृहिभिः सह ॥ १९॥
उद्यानभोजनं जन्तुयोधनं कुसुमोच्चयम् ।
जलक्रीडान्दोलनादि त्यजेदन्यच्च तादृशम् ॥ २० ॥ टीका--त्यजेदसौ । किं तत्, उद्यानभोजनं उद्यानिकायां जेमनं । तथा जन्तुयोधनं पदातिकुक्कुटमेषादीनां परस्परसम्प्रहारं । तथा कुसुमोच्चयं पुष्पा. वचयं । तथा जलक्रीडां शृङ्गारादिभिः सहर्षस्पर्दै जलव्यात्युक्षी तथा आन्दोलनं दोलाखेलनकर्म। आदिशब्देन चैत्रासितप्रतिपदादिषु भस्मव्यतिकारि परिहासादि । किं बहुना अन्यच्च परमपि तादृशं द्रव्यभावहिंसाबहुलं । कौमु. दीमहोत्सवकुद्दननाटकावलोकनसंग्रामदर्शनरासक्रीडादिकम् ॥ २० ॥
यथादोषं कृतस्नानो मध्याह्ने धौतवस्त्रयुक् ।
देवाधिदेवं सेवेत निर्द्वन्द्वः कल्मषच्छिदे ॥ २१ ॥ टीका-सेवेत आराधयेदसौ स्नपनादिभिः । कं, देवाधिदेवं देवैरिन्द्रादिभिरधिकमाचार्यादिभ्योऽतिरिक्तं दीव्यते स्तूयते आराध्यत इति देवाधिदेवो भगवानर्हन् । किंविशिष्टः सन्, निर्द्वन्द्वः समस्तव्याक्षेपमुक्तः । किमर्थ, कल्मपच्छिदे प्राचीनतात्कालीनपापच्छेदार्थ । कथम्भूतो भूत्वा, यथादोषं दोषानुसारेण मध्याह्ने अनगारभ्रामरीवेलाप्रत्यासन्नसमये कृतस्नानः कृतं विहितं स्नानं यथोचितमङ्गप्रक्षालनादिकं येन स तथोक्तः । तथा धौतवस्त्रयुक धौते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org