________________
१६४
सागारधर्मामृते
ranwwwwwww
निष्फलेऽल्पफलेऽनर्थफले जातेऽपि पौरुषे ।
न विषीदेनान्यथा वा हृषेल्लीला हि सा विधेः ॥ १६ ॥ टीका-न विषीदेत् न विषादं गच्छेदसावर्थानुबंधपरः । क्व सति, पौरुषे पुरुषकारे । किंविशिष्टे, जाते निष्पन्ने । कीदृशे, निष्फले चिकीर्षितप्रयोजनवन्ध्ये। तथा अल्पफले सम्भावितार्थलाभान्न्यूनार्थलाभे। तथाऽनर्थफले अनर्थोऽर्थनाशादिलक्षणपुरुषार्थभ्रंशः फलं साध्यं यस्य सोऽनर्थफलस्तस्मिन् । अपिः समुच्चये । न वा हृष्येत् हर्ष गच्छेदसौ । क्व सति, पौरुषे जाते सति । कथमन्यथा सफले बहुफलेऽर्थानुबन्धफलेऽपीत्यर्थः । कुत इाह, हि यस्मात् वर्तते । काऽसौ, सा पौरुषस्य नैष्फल्यसाफल्यादिजननलक्षणा लीला निरंकुशप्रवृत्तिः । कस्य, विधेः पुरार्जितपापपुण्यकर्मणः ॥ १६ ॥ अथ प्राणयात्राविध्यर्थं नवश्लोकीमाह
कदा माधुकरी वृत्तिः सा मे स्यादिति भावयन् ।
यथालाभेन सन्तुष्ट उत्तिष्ठेत तनुस्थितौ ॥ १७ ॥ टीका-ततश्च उत्तिष्ठेत अर्थचिन्तातो विरम्बोद्यमं कुर्यादसौ । क्व, तनुस्थितौ शरीरस्वास्थ्यानुवृत्तिनिमित्तप्रवृत्तौ । किंविशिष्टः सन् , सन्तुष्टः पृति गतः । केन, यथालाभेन यो यो लाभो मूलधनादधिकं धनं तेन । किं कुर्वन्, भावयन् चित्ते धारयन् । किं, इति एतत् । किमेतदित्याह, कदा कस्मिन्काले। स्याद्भविष्यति । काऽसौ, सा सूत्रोक्ता वृत्तिः अर्थात् भिक्षा। कस्य, मे मम । किंविशिष्टा, माधुकरी मधुकराणां भ्रमरादीनामियं माधुकरी तत्संबंधिनीव । पुष्पाणामिव दातृणामनुपपीडनेनात्मप्रीणनहेतुत्वात् ॥ १७ ॥
नीरगोरसधान्यैधः-शाकपुष्पाम्बरादिभिः ।
क्रीतैः शुध्यविरोधेन वृत्तिःकल्प्यायलाघवात् ॥१८॥ टीका-कल्प्या सम्पाद्या । श्रावकेण । काऽसौ, वृत्तिः स्वास्थ्यानुवृत्तिः । कस्मात्, अघलाघवात् पापाल्पत्वात् । तदाश्रित्येत्यर्थः कैः । कल्प्या, नीरा. दिभिः । किंविशिष्टैः, क्रीतैः मूल्यदानेन गृहीतैः । केन, शुध्धविरोधेन स्वप्रीतपन्नसम्यक्त्वव्रतानुपघातेन । तत्र नीरं जलं गोरसः क्षीरादिः धान्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org