________________
षष्ठोध्यायः।
१६३
Avave
बोधः दया सर्वप्राणिषु करुणा दुःखोच्छित्त्यभिलाषलक्षणा, ज्ञानं च दया च ज्ञानदये, पक्के परिणते सात्मीभूते ज्ञानदये यस्य स पक्कज्ञानदयस्तस्यैव । न तु बहियोंतिज्ञानस्य कदाचित्कानुकंपल्प चैवेत्येषशब्दार्थः ॥ १३ ॥ एवं विधेयमाचरणमुपदिश्य निषिद्धं तदुपदेष्टुमाह
मध्यजिनगृहं हासं विलासं दुःकथां कलिम् । . निद्रां निष्ठद्यूतमाहारं चतुर्विधमपि त्यजेत् ॥ १४ ॥ टीका-त्यजेदसौ हास्यादीन् सप्त । क्व, मध्येजिनगृहं जिनगृहमत्र महाश्रावकापेक्षया सकलश्चैत्यालयः इतरापेक्षया तदेकदेशो गन्धकुटिमात्रं । जिनगृहस्य मध्ये मध्येजिनगृहं । पारे मध्ये तया वेत्यनेनाव्ययीभावः । हासो हास्यं । विलासः शृंगारचेष्टाविशेषः । दुःकथा दुष्टा चित्तकालुष्यकारिणी कथा कामक्रोधादिकथा राजादिकथा वा । कलिः कलहः । निद्रा स्वापः । निष्ठयूतं मुखश्लेष्मादिनिरसनं । आहारं चतुर्विधं खाद्यस्वाद्यलेह्यपानलक्षणम् ॥ १४ ॥ एवं प्राभातिकं धर्मोपदिश्यानन्तरविधेयमर्थार्जनादिविधिमभिधत्ते
ततो यथोचितस्थानं गत्वाऽर्थेऽधिकृतान् सुधीः।
अधितिष्ठेव्यवस्येद्वा स्वयं धर्माविरोधतः ॥ १५ ॥ टीका-ततः प्राभातिकधर्मानुष्ठाननिष्ठापनानन्तरं अधितिष्ठेत् सनाथीकुर्यात् । कोऽसौ, सुधीः लोकद्वयहिताहितविचारचतुरः श्रावकः । कान्, अर्थेऽधिकृतान् अर्थस्यार्जने रक्षणे वर्द्धने च नियुक्तान् । किं कृत्वा, गत्वा प्राप्य । किं तत्, स्थानं प्रदेशं । किंविशिष्टं, यथोचितं यद्यद्यस्यार्थार्जनादियोग्यं तत्तत्तेन गम्यमित्यर्थः । वा पक्षांतरे । ताहक्सामय्यभावे । पुनः सुधीः स्वयमात्मना अर्थ व्यवस्येत् तदर्जनादौ व्याप्रीयेत । कस्मात्, धर्माविरोधतः प्रतिपन्नजिनधर्मानुपघातेन । स च राज्ञां दरिद्रेश्वरयोमीन्यामान्ययोरुतमनीचयोश्च माध्यस्थेन न्यायदर्शनात् नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलामानादिपरिहारेण, वनजीविकादिपरिहारेण च बोद्धव्यः ॥ १५॥ पौरुषस्य वैफल्यसाफल्यादौ विषादहर्षपरिहारार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org