________________
१६२
सागारधर्मामृते
~
~
मित्यर्थः । अभ्यर्च्य " जावरहंताणं भयवंताणं णमोकारं करोमीति" वचनात् । प्रतिक्रमणानन्तरं नमोहऽद्य इत्यनेन " जयन्ति निर्जिताशेषसर्वथैकान्तनीतयः । सत्यवाक्याधिपाः शश्वविद्यानन्दा जिनेश्वराः " इत्यादिना वाचनिकनमस्कारेण जलादिपूजाष्टकेन वा अभिमुखं पूजयित्वा । एष क्रमः श्रुतसूर्योरपि यथास्वं कल्प्यः । स एष जघन्येन वन्दनाविधिः प्रकर्षवृत्याऽस्य प्रथममेव गृहेऽनुष्ठानोपदेशात् ॥ ११ ॥
ततश्चावर्जयेत्सर्वान्यथाई जिनभाक्तिकान् ।
व्याख्यातः पठतश्चाहद्वचः प्रोत्साहयेन्मुहुः ॥ १२ ॥ टीका-ततश्च प्रत्याख्यानप्रकाशनावसानक्रियाकल्पनिवर्तनानन्तरं आवर्जयेदनुरञ्जयेदसौ । कान्, जिनभाक्तिकान् अर्हदेवाराधकान् । किंविशिष्टान्, सर्वान् उत्तमादिभेदभिन्नान् । कथं, यथार्ह यथायोग्यप्रतिपत्त्या । तत्र मुनीनमोऽस्त्विति आर्यिका वंदे इति । श्रावकानिच्छामीत्यादिप्रसिद्धविनयकर्मणोपचरेदित्यर्थः । उक्तंच-अहंद्रूपे नमोऽस्तु स्याद्विरतौ विनयक्रिया । अन्योन्यं क्षुल्लके चाहमिच्छाकारवचः सदा ॥ तथा प्रोत्साहयेत् प्रकर्षेण उद्योगवतः कुर्यादसौ। कान् ,पुरुषान् । किं कुर्वतो,व्याख्यातः पदपदार्थादिसमर्थनलक्षणेन विशेषेण आ शिष्यबोधोत्पत्तेर्वर्णयत उपाध्यायादीनित्यर्थः । किं तब्याख्यातोऽर्हद्वचः परमागमयुक्तयागमशब्दागमादिभेदं जिनप्रवचनं । न केवलं व्याख्यातः पठतश्च अधीयानान् शिष्यादीनित्यर्थः । कथं, मुहुः पुनः पुनः ॥ १२ ॥
स्वाध्यायं विधिवत्कुर्यादुद्धरेच्च विपद्धतान् ।
पक्वज्ञानदयस्यैव गुणाः सर्वेऽपि सिद्धिदाः ॥ १३ ॥ टीका--कुर्यादसौ । कं, स्वाध्यायं श्रुताध्ययनं यथोचितं वाचनादिरूपं वा किंवत्, विधिवत् शास्त्रोक्तविधानेन व्यञ्जनशुध्द्यादिलक्षणाष्टविधवचनेन । तथा उद्धरेत् विपदो विमोचयेदसौ । कान्, विपद्धतान् शारीरमानसासातशातितशक्तीन् दीनानित्यर्थः । यतो भवन्ति । के ते, गुणाः काठिन्यत्यागशौर्यसौन्दर्यादयः । किं विशिष्टाः, सिद्धिदाः वाञ्छितार्थसम्पादका मुक्तिप्रदा वा। किं केचिन्नेत्याह, सर्वेऽपि निःशेषाः । कस्य, पक्कज्ञानदयस्यैव पुसः ज्ञानं तत्त्वाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org