________________
१७४
सागारधर्मामृतेइति च प्रतिसन्दध्यादुद्योग मुक्तिवर्त्मनि ।
मनोरथा अपि श्रेयोरथाः श्रेयोऽनुबन्धिनः ॥ ३७॥ टीका-प्रतिसन्दध्यात् पुनः संयोजयेदसौ। कमुद्योगमुत्साहं । क्व, मुक्तिवर्त्मनि मोक्षमार्गे । कथं, इति वक्ष्यमाणेन प्राणकायबलास्थिरत्वाद्यनुचिन्त. नलक्षणेन प्रकारेण । चः समुच्चये । न केवलं संसारादिनिर्वेदं तथा भावयेदित्थं मोक्षमार्गेऽभियोगं च प्रतिसन्दध्यादित्यर्थः । अनाचरणतो मनोरथाः स्वप्नराज्यसमाः इति विप्रतिपन्नं बोधयितुमिदमाह-यतो भवन्ति । के, मनोरथाः अशक्यप्राप्त्यर्थविषयाभिलाषाः । किं पुनस्तदर्थानुष्ठानप्रवृत्तय इत्यपिशब्दार्थः । कीदृशा भवन्ति, श्रेयोऽनुबन्धिनो भवे भवे अभ्युदयसम्पादिनः प्रभूतपुण्यबन्धनिबन्धनत्वात् । किमाश्रितास्ते तथा भवन्तीत्याह-श्रेयोरथाः श्रेयो निःश्रेयसं रथः स्यंदनो येषां ते श्रेयोरथाः मोक्षारूढा इत्यर्थः । तदुक्तंयत्र भावः शिवं धत्ते द्यौः कियदूरवर्तिनीति ॥ ३७ ॥
तत्रायुःकायमयत्वाजीवितस्य तदपायानुध्यानमुखेन जीवितव्योच्छेदं भावयन्प्रौढयोक्त्या स्वार्थसिद्धिभ्रंशं भावयति
क्षणे क्षणे गलत्यायुः कायो हसति सौष्ठवात् । .
ईहे जरां नु मृत्यु नु सध्रीची स्वार्थसिद्धये ॥ ३८ ॥ टीका--गलति क्षीयते एकदेशेनापगच्छति । किं तत् , आयुः भवधारणकारण कर्म । क, क्षणे क्षणे प्रतिक्षणं । तथा हसति देशतश्च्यवति । कोऽसौ, कायः शरीरं । कस्मात्, सौष्टवात् स्वार्थक्रियाकरणसामर्थ्यात् । क्षणे क्षणे इत्यत्रापि योज्यं । नुर्वितर्के । किमर्थ, तत्किमीहे वाञ्छाम्यहं । कां, जरां सर्वांगशक्तिक्षपणलक्षणां विस्रसां । किं वा, मत्यु निःशेषायु:क्षयलक्षणं मरणं । किंविशिष्टां, सध्रीची आत्मनः सहायभूतां । कस्यै, स्वार्थसिद्धये स्वाभिप्रेतार्थनिष्पत्त्यर्थ । पुरुषार्थसाधके ह्यायुः कायश्च प्रधानं कारणं । तञ्च प्रतिक्षणं विशरारुतया निश्चितं चेत्सर्वथा पुरुषार्थभ्रंशहेतुतया प्रसिद्धाभ्यां जरामत्युभ्यां तत्संभाव्यतेति वक्रभणित्या चोदयति ॥ ३८ ॥
जिनधर्मसेवासहचारिणीरापदोऽभिनन्य तद्विरहभाविनीः सम्पदोऽपि प्रतिक्षिपन्संगत्यागे दाढ्यं भावयति--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org