________________
षष्टोध्यायः।
१७५
vvvvv
क्रियासमभिहारोऽपि जिनधर्मजुषो वरम् ।
विपदां सम्पदा नासौ जिनधर्ममुचस्तु मे ॥ ३९ ॥ टीका--वरं भवतु सोऽपि श्लाघ्य इत्यर्थः । कोऽसौ, क्रियासमाभिहारः पौन:पुन्यं भृशत्वं वा । वरं सकृद्भवनं मंदत्वं चेत्यपिशब्दार्थः । कासां, विपदा शारीरमानसदुःखानां परिषहोपसर्गाणां वा । कस्य, मे मम । किंवि. शिष्टस्य सतो, जिनधर्मजुषः जिनोक्तं जिनानुष्ठितं वा धर्मं शुद्धाचदानंदरूरूपात्मपरिणतिलक्षणं प्रीत्या सेवमानस्य । न तु न पुनर्वरं । कोऽसौ, असो क्रियासमभिहॉरः। कासां, संपदां सर्वेन्द्रियार्थसुखसाधनानां विभूतीनां कस्य, मे । किंविशिष्टस्य सतो, जिनधर्ममुचो यथोक्तजिनधर्मरहितस्य ॥३९॥ श्रमणकर्माभ्यासेन अन्यगम्यं सर्वत्र साम्यं कामयते--
लब्धं यदिह लब्धव्यं तच्छामण्यमहोदाधिम् ।।
माथित्वा साम्यपीयूषं पिबेयं परदुर्लभम् ॥ ४० ॥ टीका-लब्धं प्राप्तं तन्मया कलत्रसम्पदादिकं । यत् किं, यल्लब्धव्यं आप्तव्यं मया धन्यैर्वा । क; इह नृजन्मनि गृहाश्रमे वा । यत एवं कृतार्थोऽस्मि तत्तस्मात्पिबेयं अध्यात्ममनुभवेयं अहं । किं तत् , साम्यपीयूषं सर्वत्र समत्वममतमिव । किं कृत्वा, मथित्वा अभ्यस्य । विलोड्य च । कं, श्रामण्यमहोदधिं श्रमणानां यतीनां कर्म मूलोत्तरगुणाचरणलक्षणं श्रामण्यं महोदधिरिव अनर्ग्यरत्नोत्पत्तिनिमित्तत्वात् दुरवगाहत्वात् दुर्गमपारत्वाच्च । इयमत्र भावना यथा किल सुरासुरैः क्षीरोदधिं विलोऽय तत उद्धतममतं पीतमिति श्रयते तथा श्रामण्यं भावयित्वा उपेक्षालक्षणं चारित्रमहमात्मनि परिणमयितुमहामि । कीदृशं द्वयमपि, परदुर्लभं परैर्जिनमार्गानभिज्ञैः सुरासुरवगैश्च लोकैलब्धुमशक्यं जिनसमयाभिज्ञैरपि वा परमत्यर्थं दुर्लभं कतिपयैरेव तैरपि प्राप्यमित्यर्थः ॥ ४० ॥ तदेव भूयो भावयति
पुरेऽरण्ये मणौ रेणौ मित्रे शत्रौ सुखेऽसुखे । जीविते मरणे मोक्षे भवे स्यां समधीः कदा ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org