________________
सागारधर्मामृते
टीका-कदा कस्मिन्काले । स्यां भवेयं भवितुमर्हाम्यहं भविष्यामीति या । किंविशिष्टः, समधीः तुल्यमनाः । क्व क्क, पुरे प्रीतिकारणे चातुर्वर्ण्यसमृध्यधिष्ठाननगरे । तथा तद्विपरीते अरण्ये अटव्यां । एतयोर्द्वयोरपि रागद्वेषनिबन्धनयोरुपेक्षापरिणतः कदा भविष्यामीत्यर्थः । एवमुत्तरत्रापि योज्यं । तथा मण वज्रादिने । रेणौ रजसि । तथा मित्रे सुहृदि । शत्रौ चापकर्तरि । तथा सुखे आल्हाद नाकारे । असुखे च दुःखे देहमनस्तापरूपे । तथा जीविते पुरुषार्थसिद्धिहेतावायुषि । मरणे च तद्विपरीते । तथा मोक्षे अनन्तसुखस्वरूपे । भवे च तद्विपरीते । अयमत्र विशेषः - पुरारण्यादिषु तुल्यमतित्वमन्यस्यापि भवेत् । असौ तु परमवैराग्योपगतो मोक्षभवयोरपि निर्विशेषमति. त्वमर्थयते । ' मोक्षे भवे च सर्वत्र निस्स्पृहो मुनिसत्तम” इति श्रुतेः ॥ ४१ ॥ यतिधर्मचर्याकाष्टाधिरोहणमाशंसति
1
१७६
मोक्षोन्मुख क्रियाकाण्डविस्मापित बहिर्जनः ।
कदा लप्स्ये समरसस्वादिनां पंक्तिमात्मदृक् ॥ ४२ ॥
टीका - कदा कस्मिन्काले । लप्स्ये प्राप्स्याम्यहं । कां पंक्तिं लक्षणया सजातीयत्वं । केषां समरसस्वदिनां समरसं ध्यातृभ्येयध्यानानामेकी भावे सत्यानन्दं स्वादयन्त्यभीक्ष्णं भूयोभूयोऽनुभवन्तीति समरसस्वादिनो घटमानयोगा निष्पन्नयोगा वा मुमुक्षवः समरसस्वादिनस्तेषां । किंविशिष्टः सन्, आत्मदृक् आत्मदर्शी भवन् । कथम्भूतो भूत्वा मोक्षोन्मुखेत्यादि - मोक्षे अनन्तज्ञानादिचतुष्टयाविर्भावस्वभावे निः श्रेयसि उन्मुखाः अभिमुखाः उद्यतास्तेषां क्रियाकाण्डगुरूकुलोपासनक्लेशातापनादियोग कायक्लेशादि तेन विस्मापितोऽनन्य सम्भाव्यतया विस्मयं नीतो बहिर्जनो बहिरात्मलोको येन स तथोक्तः ॥ ४२ ॥
योगपरमकाष्ठामभिकांक्षति-
शून्यध्यानैकतानस्य स्थाणुबुध्याऽनडुन्मृगैः ।
उद्धृष्यमाणस्य कदा यास्यन्ति दिवसा मम ॥ ४३ ॥
टीका -- कदा कस्मिन् योगाभ्याससमये । यास्यन्ति गमिष्यन्ति । के, दिवसाः अहोरात्राः । कस्य, मम तत्त्वज्ञानवैराग्य सम्पन्नस्य । किंविशिष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org