________________
षष्ठोध्यायः ।
१७७
सतः, शून्यध्यानकतानस्य निर्विकल्पसमाधिपरिणतस्य । पुनः किं क्रियमाणस्य, उद्धृष्यमाणस्य स्कन्धश्रृङ्गकण्डूयनगोचरीक्रियमाणस्य । कैरनडुन्मृगैः अनड्वाहः उत्कृष्टपशवः मृगा अरण्यचारिणो हरिणाः अनड्वाहश्च मृगाश्च अनडुन्मृगास्तैः । कया, स्थाणुबुध्या स्थाणुः सीमाद्यर्थ ऊर्ध्वस्थितकाष्ठविशेष: स्थाणुरिति वुद्धिः कल्पना स्थाणुबुद्धिस्तया। यदा हि पुरावहिरहं कायोत्सर्गेण स्थास्यामि तदा स्वैरचारिणो वृषभादयः स्कन्धादिकण्डूत्याकुलितास्त. कण्डूयनाय मां स्थाणुरयमिति मन्यमानाः स्कन्धादिभिरुघृष्यन्ति । एवमरण्ये हरिणादयोऽपि । अहं पुनः पुरारण्ययोर्मुक्ताग्रहत्वेन तिष्ठन् शुद्धचिदानन्दमयं वात्मानमेवाधिवत्स्यामीति मनोरथोऽस्य महात्मनो लक्ष्यत इति॥४३||
महानिशायां पुरादहिः प्रोरधोपवासवतान् कायोत्सर्गस्थितानुपसर्गजयेन योगादचलितानप्राच्यश्रावकान् प्रशंसयति--
धन्यास्ते जिनदत्ताद्या गृहिणोऽपि न येऽचलन् ।
तत्तादृगुपसर्गोपनिपाते जिनधर्मतः ॥ ४४ ।। टीका–वर्तन्ते । के, ते प्रसिद्धाः जिनदत्ताद्याः जिनदत्तो नाम श्रेष्ठी आयः प्रथमो येषां वारिषेणकुमारादीनां ते जिनदत्ताद्याःप्रोषधोपवासव्रतिनः । किंविशिष्टा, धन्या सुकृतिनः तेभ्योऽहं स्पृहयामीत्यर्थः । ये किं, ये नाचलन् न चलिताः । कस्मात्, जिनधर्मतः जिनोक्ताजिनसेविताद्वा सामायिकात् । किंविशिष्टाः सन्तो, गृहिणो द्वितीयाश्रमिणः । किंपुनरुत्तराश्रमिण इत्यपिशब्दार्थः । क सति, तदित्यादि । ते श्रुतप्रसिद्धास्तादृशोऽनन्यसहशा उपसर्गाः शस्त्रप्रहारादयस्तेषां उपनिपाते समीपे निपतनं नियतमवश्यम्भावि पतनं तत्तादृगुपसर्गोपनिपातस्तस्मिन् ॥ ४४ ।। अतिकप्रतिमामुपसंहरंस्तदनुष्टायिनः फलविशेषमाह
इत्याहोरात्रिकाचारचारिणि व्रतधारिण।
स्वर्गश्रीः क्षिपते मोक्षश्रीर्षयेव वरस्रजम् ॥ ४५ ॥ टीका-क्षिपते मुंचति। काऽसौ, स्वर्गश्रीः यथास्वं सौधर्मादिकल्पलक्ष्मीः । कां, वरस्र वरोऽभिमतः पतिर्वरणं वा तत्स्वीकरणं वरार्था स्रक माला वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org