SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ .१७८ सागारधर्मामृते सक् तां वरमालामित्यर्थः । क, व्रतधारिणि व्रतानि प्रागुक्तानि धारयत्यात्मनि निरतिचारतया स्थिरीकरोत्यभीक्ष्णमिति व्रतधारी व्रतिकप्रतिमारूढः श्राव. कस्तस्मिन् । किंविशिष्टे, इत्येवमुक्तप्रकारेण । आहोरात्रिकमहोरात्रभवमाचारं ब्राह्ममुहूर्तोत्थानादिकं चरत्यनुतिष्ठतीत्येवंशीलस्तञ्चारी तस्मिन् । अत्रोत्प्रेक्षामाह-मोक्षश्रीर्षयेवेति । मोक्षश्रियामीर्षाऽक्षान्तिर्मोक्षश्रीर्षा तया। इयमत्र भावना-यथा काचिन्महाकुलीनकन्या पित्रादिभिरनुज्ञाता अभीष्टपताविमं नान्या स्वीकुर्यादिति बुध्द्या वरमालां क्षिपति तथा तत्तादृङ्महाश्रावके मोक्षश्रीर्षया स्वर्गश्रीरिति भद्रम् ॥ ४५ ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासज्ञायामादितश्चतुर्दशः प्रक्रमाच्च षष्टोऽध्याय:समाप्तः ॥ ५ ॥ अथ सप्तमोऽध्यायः। अथ सामायिकादिप्रतिमानवकस्वरूपप्ररूपणार्थमुपक्रमते । तत्र यतिकप्रतिमायां सामायिकं शीलतया निर्दिष्टं तदेवेह व्रतत्वेन प्रतिपद्यमानं प्रति. मारूपतां यातीति प्ररूपयन्नाह सुदृङ्मूलोत्तरगुणग्रामाभ्यासविशुद्धधीः । भजस्त्रिसन्ध्यं कृच्छ्रेऽपि साम्यं सामायिकी भवेत् ॥१॥ टीका-भवेत् भवितुमर्हति । कोऽसौ, व्रतिकः । कीदृशः, सामायिकी सामायिकप्रतिमावान् । किं कुर्वन् , भजन सेवमानः किं । तत्साम्यं मोहक्षोभविहीनमात्मपरिणाम । कथं, त्रिसन्ध्यं सन्ध्यात्रये । क्व सति, कृच्छेऽपि परीषहोपसर्गसन्निपातेऽपि । कथम्भूतो भूत्वा, सुदृगित्यादि-हक्सम्यक्त्वं मूलो. त्तरगुणग्रामः प्रागुक्तलक्षणः दृक् च मूलोत्तरगुणग्रामश्च दृङ्मूलोत्तरगुणग्रामौ प्रशस्तौ निरतिचारौ दृङ्मूलोत्तरगुणग्रामौ सुदृङ्मूलोत्तरगुणग्रामौ । तयोरभ्यासोऽसकृत्प्रवृत्तिः तेन विशुद्धा प्रतिबन्धकापायात् प्रकृतसंयमानुष्ठानसाधनसामर्थ्य प्राप्ता धीनिं यस्य स तथोक्तः ॥ १ ॥ व्यवहारसामायिकविध्युपदेशपुरःसरं निश्चयसामयिकं विधेयतयोपदिशति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy