Book Title: Sagar Dharmamrutam
Author(s): Ashadhar, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
१५६
सागारधर्मामृते
: मार्गितन ददाति प्रयच्छतोऽप्यादराभावो वा अन्यदानुगासहिष्णुत्वं वा मत्सरः । यथाऽनेन तावच्छ्रावकेण मार्गितेन दत्तं किमहमस्मादपि हीन : इति परोन्नतिवैमनस्याद्ददाति । एतच्च मत्सर शब्दस्यानेकार्थत्वात्सङ्गच्छते ।। - तदुक्तं -- मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ॥ एते पूर्वे चाज्ञानप्रमादानातिचराः । अन्यथा तु भङ्गा एवेति विभावनीयम् ॥ ५४ ॥
प्रकृतार्थोपसंहारपुरस्सरमुक्तशेषं निर्दिशन् श्रावकस्य महाश्रावकत्वमाहएवं पालयितुं व्रतानि विदधच्छीलानि सप्तामलान्यापूर्णः समितिष्वनारतमनोदीप्राप्तवाग्दीपकः । वैयावृत्यपरायणो गुणवतां दीनानतीवोद्धरं
"
श्वर्या दैवसिकीमिमां चरति यः स स्यान्महाश्रावकः ||५५ || टीका - स्यात् भवेत् । कोऽसौ स गृही। किंविशिष्टो, महाश्रावकः महानिन्द्रादीनां पूज्यः । शृणोति तत्त्वं गुरुभ्य इति श्रावकः महाँश्चासो श्रावकश्च महाश्रावकः । यः किं, यश्चरति अनुतिष्ठति । कां चर्यां आचारं । किंविशिष्टां, दैवसिकीं दिवसे अहोराले भवा दैवसिकी तां । पुनः किंविशिष्टां इमां अनन्तराध्याये वक्ष्यमाणां । किं कुर्वन् विदधत् आचरन् । कानि, शोलानि व्रतपरिरक्षणानि । कति, सप्त गुणव्रतत्रयशिक्षाव्रतचतुष्टयलक्षणानि । किंविशिष्टानि विदधत् अमलानि निरतिचाराणि । कथमेवमुक्तप्रकारेण । कि कर्तुं, पालयितुं पालयिष्याम्यहमित्यभिप्रायेण । कानि, व्रतानि सम्यग्दर्शन पूर्वाणि निरतिचारपञ्चाणुव्रतानि । किंविशिष्टः सन्, आगूर्णः उद्यतः । कासु, समितिषु श्रुतनिरूपितक्रमेणेर्याभाषपणादाननिक्षेपोत्सर्गप्रभृतिषु संयमरूपाणुव्रतनिष्ठ इत्यर्थः । अणुव्रत महाव्रतानि हि समितिसहितानि संयमस्तद्रहितानि विरतिरिति सिद्धान्तः । तदुक्तं-- अणुवयमहन्वयाई समिदीसहिदार्थि संजमो समिदिहिं विणा विरदि इति ॥ पुनः किंविशिष्टः, अनारतमनोदप्रिाप्तवग्दपिक: आप्तानां परापरगुरूणां वाग्वचनमाप्तवाक् तज्जन्यश्रुतज्ञानमिह गृह्यते । कारणे कार्योपचारात् । आप्तवागेव दीपकः प्रदीपः स्वपरप्रकाशकत्वादाप्तवान्देपिक : परमागमप्रदीपकः, अनारतं सततं मनसि चित्ते दीप्रो दीपनशीलोऽनारतमनोदप्रस्तथाविध आप्तवाग्दीपको यस्य स तथोक्तः । पुनः किंविशिष्टो, वैया
For Private & Personal Use Only
www.jainelibrary.org
"
Jain Education International

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268