Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 65
________________ पद्मावत्याऽन्वितं वामे, धरणेन्द्रेण दक्षिणे; परितोऽष्टदलस्थेन, मंत्रराजेन संयुतम् । अष्टपत्र स्थितैः पंच, नमस्कारैस्तथा त्रिभिः; ज्ञानाधै र्वेष्टितं नाथं, धर्मार्थ काम माक्षदम् । सत्षोडशदलारूढं, विद्यादेवीभिन्वितम्; चतुर्विशंतिपत्रस्थं, जिनं मातृसमावृतम् । मायावेष्टयं त्रयाग्रस्थं, क्रौंकारसहितं प्रभुम्; नवग्रहावृतम देवं, दिक्पालैर्दशभिर्वृतम् । चतुष्कोणेषु मन्त्राद्यैश्चतुर्बीजान्वितैर्जिने; चतुरष्टदशद्वित्रि, द्विधांकसंज्ञकैर्युतम् । दिक्षु क्षकारयुक्तेन, विदिक्षु लांकितेन च; चतुरस्त्रेण वज्रांक, क्षितितत्वे प्रतिष्ठिम् । श्री पार्श्वनाथ मित्योवं, यः समाराधयेज्जिनम्; तं सर्व पाप निर्मुक्तं, भजते श्री शुभप्रदा । जिनेशः पूजितो भक्त्या, संस्तुतः प्रणतोऽथवाः; ध्यातस्तवं यैःक्षणं वाऽपि,सिध्धिस्तेषां महोदया। श्री पार्श्वतन्त्रराजान्ते, चिन्तामणिगुणास्पदम्; शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् । ऋध्धि सिध्धि महाबुध्धि, घृति श्री कान्ति कीर्तिदम्; मृत्युंजयं शिवात्मनं, जपनान्नन्दितो जनः । 48

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106