Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 71
________________ ॐ आँ कौँ ह्रीं श्रीं माणिभद्रादि यक्षकुमारदेवाः प्रीयन्तां प्रीयन्तां । सर्वजिनशासन "रक्षक देवाः श्री घंटाकर्ण महावीराः प्रीयन्तां प्रीयन्तां । श्री आदित्य, सोम, मंगल, बुध, बृहस्पति, शुक्र, शनी, राहु, केतु सर्वे नवग्रहाः प्रीयन्तां प्रसीदन्तु देशस्य राष्ट्रस्य पुरस्य राज्ञःकरोतु शान्तिं भगवान जिनेन्द्रः। यत्सुखं त्रिषु लोकेषु, व्याधिव्यसनवर्जितम्। अभयं क्षेममारोग्यं स्वस्तिरस्तु च मे सदा। यदर्थं क्रियते कर्म, सप्रीतिनित्यमुत्तमम्। शान्तिकं पौष्टिकं चैव, सर्वकार्येषु सिद्धिदम् ।। ************************** श्री चिन्तामणि पार्श्वनाथ स्तोत्रम् । किं कर्पूरमयं सुधारसमयं, किं चन्द्र रोचिर्मयं, किं लावण्यमयं महामणिमयं, कारूण्यकेलिमयम्; विश्वानन्दमयं महोदयमयं, शोभामयं चिन्मयं, शुक्लध्यानमयं वपुर्जिनपते-भूयाद् भवालम्बनम् । पातालं कलयन्, धरांधवलयन्, आकाशमापूरयन्, दिक्चक्र क्रमयन्, सुरासुरनर, श्रेणिं च विस्मापयन्; ब्रह्माण्डं सुखयन्, जलाजिलधेः फेनच्छलाल्लोलयन्, श्री चिन्तामणि पार्श्वसंभवयशो, हंसश्चिरंराजते। पुण्यानांविपणि, स्तमोदिनमणिः कामेभ कुम्भे शृणिः, मोक्षेनिस्सरणिः, सुरेन्द्रकरिणि, ज्योति प्रकाशारिणिः; दाने देवमणि, नतोत्तमजन,-श्रेणिः कृपा सारिणी, विश्वसनन्दसुधा, धृणिभवभिदे, श्री पार्श्वचिन्तामणि। 154

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106