Book Title: Panchkarmagranthparishilan
Author(s): Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr
View full book text
________________
ચતુર્થકર્મગ્રન્યપરિશીલન
शास्त्रसज्जनसंसर्गः प्रज्ञा पूर्वं विवर्धयेत् । सेकसंरक्षणारम्भैः फलप्राप्तौ लतामिव ।।24।। प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः । फलं फलत्यतिस्वादु भासोर्बिम्बमिवैन्दवम् ।।25।। य एव यत्नः क्रियते बाह्यार्थोपार्जने जनैः । स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने ।।2611 सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् । बीजं संसारवृक्षाणां प्रज्ञामान्यं विनाशयेत् ।।27।। स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते । तत्समासाद्यते सर्वं प्रज्ञाकोशान्महात्मना ।।28।। प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् । न दानैर्न च वा तीर्थस्तपसा न च राघव ।।29।। यत्प्राप्ताः संपदं दैवीमपि भूमिचरा नराः । प्रज्ञापुण्यलतायास्तत्फलं स्वादु समुत्थितम् ।।301 प्रज्ञया नखरालूनमत्तवारणयूथपाः । जम्बुकैर्विजिताः सिंहाः सिंहैर्हरिणका इव ॥31।। सामान्यैरपि भूपत्वं प्राप्तं प्रज्ञावशान्नरैः । स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते ।।32।। प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः । जयन्ति सुभटप्रख्यानरानप्यतिभीरवः ।।33।। चिन्तामणिरियं प्रज्ञा हत्कोशस्था विवेकिनः । फलं कल्पलतेवैषा चिन्तितं सम्प्रयच्छति ।।34|| भव्यस्तरति संसारं प्रज्ञयापोह्यतेऽधमः । शिक्षितः पारमाप्नोति नावा नाप्नोत्यशिक्षितः ।।35।। धीः सम्यग्योजिता पारमसम्यग्योजिताऽऽपदम् । नरं नयति संसारे भ्रमन्ती नौरिवार्णवे ।।36।। विवेकिनमसंमूढं प्राज्ञमाशागणोत्थिताः । दोषा न परिबाधन्ते सन्नद्धमिव सायकाः ।।37।। प्रज्ञयेह जगत्सर्वं सम्यगेवाङ्ग दृश्यते । सम्यग्दर्शनमायान्ति नापदो न च संपदः ।।38।। पिधानं परमार्कस्य जडात्मा क्तितोऽसितः । । अहंकाराम्बुदो मत्तः प्रज्ञावातेन बाध्यते ।।39।।
ઉપશમપ્રકરણ, પ્રામાહા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130