Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 218
________________ का०पू०१६, वि०पृ०४४३ ] न्यायमज्जरीग्रन्थिभङ्गः दि [[ ] प्रदर्शनमिदं कृतमिति सूत्रकारेणेति शेषः । बहुरन्य इति कोsसावित्याह-- कर्तृप्रयोज्यता खलु दृष्टेति । चेष्टा न दृष्टा नियता, अपि तु कादाचित्की गन्त्र्याः रथादेश्च यथा ँ। सहजनिजकर्मविकृतौ । सहजं यन्निजं कर्म तिर्यग्गतिलक्षणं तस्य विकृतिः ऊर्ध्वम् अधश्च गतिः । वृद्धिक्षत भग्न रोहणमिति। क्षतं मांसस्य भङ्गः, अस्योद्भेदो रोहणम् । वृद्धिश्च क्षतभग्नरोहणं च तत् । चेतो मनः । ज्ञानप्रयत्नादिमत इति । करणं धर्मं ज्ञानप्रयत्नादिमदधिष्ठितकरणत्वाद वास्यादिवदित्यत्र वास्यादौ किमधिष्ठातृ विवक्षितम्, शरीरमन्यद्वा ? शरीरस्याधिष्ठातृत्वे साध्यविकलत्वं साध्यविपरीतसाधनाद् विरुद्ध[श्च] हेतुः; तदन्यस्त्वसिद्ध एवेति । सामान्यमात्रस्य तवापि सिद्धेः । प्रयत्नादिमन्मात्राधिष्ठितत्वं भवताऽप्यभ्युपगतमेवेति । एवं च विशेषविरुद्धोद्भावने सकलानुमानोच्छेदप्रसङ्ग इत्यसकृदुक्तम् । तत्संज्ञितामितिफलम् । अयं स गवय इति या संज्ञितामितिः संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः सैव फलम् । "सर्वे संस्काराः । [7] सर्वे ते संभूय हेतुभिः क्रियन्त इति संस्काराश्च ते । न क्वचित् किञ्चिदाश्रितम् । क्षणिकत्वे सति आश्रयाश्रयिभावाभावादिति भावः । यतोऽधिष्ठान कल्पना । गुणस्य निरधिष्ठानस्यानुपलम्भादिति । निराश्रयेष्विति । विज्ञानान्येव कार्यकारणभावेन स्थितानि राशीक्रियमाणानि विज्ञानस्कन्ध" इत्युच्यते । यद्यपि च सन्तत्यन्तरेति । तथाहि —समीहादिनाऽनुमीयमाना सन्तानान्तर १ न्यायसू० १. १. १०, ३. २.१८-४१ । २ वास्यादीनामिव करणानां कर्तृ प्रयोजयत्वदर्शनात् शब्दादिषु प्रसिद्धया च प्रसाधकोऽनुमीयते । प्रशस्त० भा० पृ० ३६० । ३ शरीरसमवायिनीभ्यां च हिताहितप्राप्तिपरिहारयोग्याभ्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयते । प्रशस्त० भा० पृ० ३६० ४ शरीरपरिगृहीते वायौ विकृतकर्मदर्शनात्.... प्रशस्त०भा०पृ० ३६० । ५ वृद्धिक्षतभग्नसंरोहणात् । प्रशस्त०भा० पृ० ३६०| १-५ प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि । वैशे०सू० ३.२.४. । ६ समाख्या सम्बन्धप्रतिपत्तिरुपमानार्थ इत्याह । 'यथा गौरेवं गवयः' इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थ मिन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यते इति । न्यायभा० १ १ ६ । ७ क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥ बोधिचर्यावतारपञ्जिकायां (९. ६) उद्घृतेयं कारिका । ८ प्रतिक्षणविनाशे हि भावानां भावसन्ततेः । तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥ प्र०वा० १. ६९ । ९ राश्यायद्वार गोत्रार्थाः स्कन्घायतनधातवः । अभि०को० १. २० । १० विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते । स पुनः षड़ विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति । अभि० को ० भा० १. १६ । Jain Education International ૨૮૭ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312