Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२३०
भट्टश्रीचक्रधरप्रणीतः [ का पृ०१२६, वि.पृ०५७६ विशेषविधिरूपेणेति । साधर्म्य वैधाभ्यां पूर्व प्रतिपाद्य केवल वैधम्र्येणैव प्रतिपादनं विशेषविधिः शेषप्रतिषेधफलो वामेनाक्ष्णा पश्यतीतिवत् ।
अत एव च भाष्यकार इति । स हि "उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः” इति सूत्रं न्यायसूत्र १.१.३४] व्याख्याय 'तथा वैधात्' इत्यस्य सूत्रस्य न्यायसूत्र १.१.३५] अवतारणाय 'किमेतावद्वेतुलक्षणम्' इत्याह । 'अनित्यः शब्दः' इति च प्रतिज्ञामुक्त्वा 'उत्पत्तिधर्मकत्वात्' इत्युभयत्रहेतुमाह ।
___ यथा कथञ्चिद् व्याख्यास्याम इति । अन्वयव्यतिरेकिणो यल्लक्षणं प्राक् प्रतिपादितम् आहोस्विद् अन्यस्यापि हेतोरन्यत् किञ्चिल्लक्षणं विद्यत इति—प्रश्नभाष्यमेवं व्याख्येयमुत्तरभाष्यं तु स्पष्टमेव ।
'समानो धर्मों लिङ्गसामान्यमिति । लिङ्गसामान्यधूमत्वं द्वयोः सम्भवति न धूमव्यक्तिरिति [46] लिङ्गसामान्यग्रहणम् । दृष्टान्तोदाहरणशब्दयोः समानाधिकरणमविरुद्धमिति । दृष्टान्त उदाहरणप्रतिपाद्यो दृष्टान्त इत्यर्थः ।
नन्वेवं यत्र हेतुकृतेति । साध्यसाधाद् लिङ्गसामान्यात् तस्य साध्यस्य धर्मस्य भावः ख्यापते(प्यते) यत्र स दृष्टान्त उदाहरणमिति तत्र व्याख्यानात् ।
प्रयोजकत्वमग्नेश्चेति । साध्येन धर्मिणा साधर्म्य समानो धर्मोऽनुमेयसामान्यं तस्मादित्येवं व्याख्या । न चैवं युज्यते वक्तुमनैकान्तिकदोषत इति । यत्र यत्राग्निस्तत्र तत्र धूम इति ह्युच्यमाने शुष्कन्धनप्रभवेऽग्नौ धूमस्याभावादनैकान्तिकत्वम् ।
सपक्षकदेशवृत्तेरिति । धूमो हि हेतुः सपक्षकदेशवृत्तिः, अग्निमन्तो हि प्रदेशाः सपक्षाः, न च सर्वेष्वसावस्ति, शुष्कन्धनप्रभवेऽग्नावसम्भवात् । व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वय इति । एवं ह्युच्यमाने प्रकृतेन हेतुवचनेन साध्यसम्बन्धेनान्वयो न प्रदर्शितो भवति । यन्नित्यं तदमूर्तमिति विपरीतान्वय इति । व्याप्यस्य प्राथम्येन यच्छब्देन च निर्देशः कर्तुमुचितो व्यापकस्य तु पश्चाद् निर्देशस्तच्छब्देनैव कार्यः—यत्र धूमस्तत्राग्निरितिवत् । तदुक्तम्--
१ मुदितमजर्या तु 'समानधर्मो' इति पाठः ।
२ सोऽयं दृष्टान्तः साध्यसाधात् तद्धर्मभावित्वेन विशेषणेन युज्यमान उदाहरणं भवति, उदाहृयतेऽनेन धर्मयोः साध्यसाधनभावः इत्युदाहरणम् । ननु च करणकारकारिग्रहाद् वचनमुदाहरणं दृष्टान्तश्चार्थो न चानयोः सामानाधिकरण्यं युज्यते, न हि विषाणादिमदित्यभिधानं गवा. समानाधिकरणं भवति । नैष दोषः वचनविशेषणत्वेन दृष्टान्तस्योपादानान्न स्वतन्त्रा दृष्टान्त उदाहरणम् , किन्तु साध्यसाधात् तद्धर्मभावित्वे सति अभिधीयमान इति । न्यायवा० १.१.३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312