Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 260
________________ का०पृ०१३५, वि०पृ०५७४] न्यायमञ्जरीग्रन्थिभङ्गः २२९ लत्वं गमनस्य द्वैरूप्यमस्ति येन गच्छत्येवेत्यनेन रूपान्तरस्य व्यवच्छेदः क्रियेत' । न हि तत्रैष एवेति । एष एवेति नियमो मार्गान्तराणामपि सुनगामिनां सम्भवाद् वक्तुं न पार्यते । स्रघ्नमेवेति वेति । न चासौ नियमेन स्रुघ्नमेव गच्छति, प्नात् परतोऽवस्थितानामपि नगरान्तरनामान्तराणां तेन मार्गेण प्राप्यत्वात् । नियमस्तद्विपक्षादिति । तस्यानित्यत्वस्य विपक्षो नित्यत्वम् । ततो नियमः क्रियते अनित्य एवेत्यनेन । नाविरोधिनों गुणत्वादेः । बाधोऽनुमानसारूप्येति । सारूप्यकृत उपमानकृतः । पक्ष-विपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वादिति । विरुद्धस्य असति पक्षवृत्तित्वेऽसिद्धत्वं स्यान्न विरुद्धत्वमिति । तदुदाहरणसाधम्ये साध्यदृष्टान्तधर्मिसाधारणो धर्मों हेतुरिति । ननु साधर्म्यशब्देन कथं धर्मोऽभिधीयते । समानो धर्मो यस्यासौ सधर्मा तद्भावः साधर्म्यमिति सधर्मशब्दस्य धर्मिणि प्रवृत्तिनिमित्तं धर्म एवेति स एव साधर्म्यशब्देनोच्यत इत्यदोषः ।। सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनाङ्गतामेतीति । असति साधनधर्मस्य साध्यधर्मप्रयोजकत्वे हेतुत्वाभावात् । न वाक्यांशो न पञ्चमीति । साधHप्रतिपादकं हि वचो वाक्यांशो न साधर्म्यमित्यर्थः । १ सर्वस्मिन् वाक्येऽवधारणमिति तु न बुद्धयामहे । तद्यथा-गोपालकेन मार्गेऽपदिष्टे 'एष पन्थाः श्रुघ्नं गच्छति' इति नावधारणस्य विषयं पश्यामः, अवधारणस्य तु विषयः सामान्यश्रुतौ नियमः । न्यायवा०१. १. ३३ । २-३ श्लोवा० अनु०५५। ४ मुद्रितमञ्जर्या तु 'बाधोऽनुमानरूपस्य' इति पाठः । ५ दिङ्नागवचनमिदम् । उदाहरणसाधाच्च किमन्यत् साध्यसाधनमित्येके । न किलोदाहरणसाधर्म्यव्यतिरेकेण साध्यसाधनमस्तीत्यत एवं सूत्रं कर्तव्यं 'उदाहरणसाधय हेतुः' इति । अथ पुनः साध्यसाधनशब्दोपादानमुदाहरणसाधर्म्यविशेषणार्थम् , एवमपि पञ्चम्यपदेशोऽनर्थकः इति । न हि भवति नीलादुत्पलमिति । अन्ये तु पञ्चम्यपदेशानर्थक्यमन्यथा वर्णयन्ति । अर्थान्तरे दृष्टत्वादिहानर्थक इति । अर्थान्तरे किल पञ्चमी दृष्टया यथा ग्रामादिति । न पुनरिहोदाहरणसाधर्म्यव्यतिरेकेण साध्यस्य साधनमस्तीत्यतः पञ्चम्यपदेशोऽनर्थकः ।...न्यायवा० १. १. ३४ । एतत् किल हेतुलक्षणं भदन्तो दूषयां बभूव-साधनं यदि साधर्म्य न वाक्यांशः, न ह्यर्थः पञ्चावयववाक्यस्यावयवः । न पञ्चमी, यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेद उभयथापि न पञ्चमी, साधनसामानाधिकरण्येन प्रथमाप्रसङ्गात् । अत्यन्तामेदे चैकतरपदाप्रयोगात् । वाक्यं चेत् ततः पञ्चम्युपपद्यते, साधनं हि वाक्यरूपं साधादर्थादत्थितं यतः तद्विशेष्यं स्यात् । न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपि इति न विशेष्यम् , कुतः ? साधनत्वादसम्भवः । अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गोऽसाधनत्वादिति, न, तत्रापि द्विधा दोषात साक्षात् साधनम् ? पारम्पर्येण वा ? यदि पारम्पर्येण वक्तृज्ञानं तर्हि साक्षात् साधयेसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् । अथ साक्षात् साधनम् तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्य समुत्थं साक्षात्साधनं हेतुः स्यात् । प्रकृते त्वन्यसंभवः, यदि तु पञ्चावयववाक्यस्य प्रकृतत्वाद् ज्ञानादिव्यवच्छेदः, तथाप्यन्यसंभवः, उपनयस्यापि साधर्म्यसमुत्थत्वात् । स्वलक्षणेन बाधा चेत् , न, विकल्पादिसंभवात् । तस्मात् षष्ठयस्तु, तत्रापि विशेषणमनर्थकम् , 'साधर्म्यस्य हेतुः' इत्येतावन्मात्रं वक्तव्यमिति । तदेतद् दिङ्नागदूषणमुपन्यस्यति-उदाहरणसाधाच्चेति । न्यायवा० तात्प० १.१.३४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312