Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 276
________________ का०पृ०२०४, वि०पृ०६५५] न्यायमध्जरीमन्धिमा २४५ यस्य शासने भदन्तः अश्वघोषः प्रव्रजितः । कः पुनर्भदन्तः अश्वघोषः ?, यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च राष्ट्रपालं नाम नाटकम् ! इति प्रसङ्गं कृत्वा मान्यन्ते ततः प्रविशति सूत्रधार इत्यादिकं पठेन्नृत्येच्च ।" [वादन्याय, पृ०६७] प्रकृते विवादास्पदीभूते वस्तुनि को विशेष इति । यथा निरर्थकस्य प्रकृतासाधकत्वं तथाऽस्यापीत्यर्थः । माध्यमकानामाकारशून्यं स्वच्छज्ञानमात्रमेवेति । ज्ञाने स्थूलस्याकारस्य प्रतिभासनात् तस्य वृत्तिविकल्पादिना असत्त्वाज्ज्ञानस्यैव परमार्थसत्त्वं नाकारस्येति । प्रपञ्चकथायां न दोष इति । यत्र प्रपञ्चेन कथा प्रस्तुता तत्राधिक्यमदोषमिति बदता। यत्र तु नियमेनैक एव हेतुः प्रयोक्तव्य इति परिभाष्यकथा, तत्र दोष एवेत्युक्तं भवति । तथा च स आह—'प्रपञ्चकथायां न कश्चिद् दोषो नियमाभावात्' [वादन्याय पृ० ११०] इति । जात्यपेक्षश्च शब्दपौनरुक्तयव्यवहार इति । यज्जातीयः प्रयुक्तस्तज्जातीयस्यैव पुनः प्रयोगेण तस्यैवेति । अनुवादे तु पौनरुक्तधमदोषः। अर्थविशेषोपपत्तेरिति शेषः । तमेव दर्शयितुमाह-हेत्वपदेशादित्यादिना । स्मरत गिरिशं गिरीशो नगरीति । गिरि स्वाश्रयमुपभोगेन स्यति तनूकरोतीति गिरिशः शर्वः, तं स्मर ध्यायत । कीदृशम् ? यस्य गिरीशो नगरी, गिरीणां पर्वतानामीशो हिमवान् नगरी स्थानं यस्य इत्यर्थः । कीदृशस्य [60] सतः ?, सातत्यस्थानमाह-असमस्मरद्वेषस्य असमः अतुल्यः अनन्यसाधारणः स्मरं कामं प्रति द्वेषो यस्य तादृशस्य,....यदीयस्य वेषस्य गरीयस्या गुरुतरया मुदा हर्षेण संस्मृतवानित्यर्थः । अतिप्रसङ्गश्चैवंप्रायाणां निर्देशे भवेदिति । असम्बद्धप्रतिपत्तिरूपत्वादेते अप्रतिपत्तावन्तर्भवन्ति। पृथक् त्वेवंप्रायाणां निर्देशे क्रियमाणे नेयत्तानिर्देशः क्रियेतेत्यव्यवस्था । किमस्य कार्यव्यासङ्गस्य । अहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति । ननु धर्मकीर्तिनापि किं निरनुबन्धनमेव कथाविक्षेपस्य हेत्वाभासत्वमुक्तम् ?, अस्ति तस्याभिप्रायः । स हि प्रकृतसाधनासम्बन्धप्रतीते हेत्वाभासतां मन्यते । प्रकृतस्य साध्यस्य साधने यस्य सामर्थ्य नास्ति तस्य सर्वस्य हेत्वाभासतेति हि तत्पक्षः । तथा चाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312