________________
का०पृ०२०४, वि०पृ०६५५] न्यायमध्जरीमन्धिमा
२४५ यस्य शासने भदन्तः अश्वघोषः प्रव्रजितः । कः पुनर्भदन्तः अश्वघोषः ?, यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च राष्ट्रपालं नाम नाटकम् ! इति प्रसङ्गं कृत्वा मान्यन्ते ततः प्रविशति सूत्रधार इत्यादिकं पठेन्नृत्येच्च ।" [वादन्याय, पृ०६७]
प्रकृते विवादास्पदीभूते वस्तुनि को विशेष इति । यथा निरर्थकस्य प्रकृतासाधकत्वं तथाऽस्यापीत्यर्थः ।
माध्यमकानामाकारशून्यं स्वच्छज्ञानमात्रमेवेति । ज्ञाने स्थूलस्याकारस्य प्रतिभासनात् तस्य वृत्तिविकल्पादिना असत्त्वाज्ज्ञानस्यैव परमार्थसत्त्वं नाकारस्येति ।
प्रपञ्चकथायां न दोष इति । यत्र प्रपञ्चेन कथा प्रस्तुता तत्राधिक्यमदोषमिति बदता। यत्र तु नियमेनैक एव हेतुः प्रयोक्तव्य इति परिभाष्यकथा, तत्र दोष एवेत्युक्तं भवति । तथा च स आह—'प्रपञ्चकथायां न कश्चिद् दोषो नियमाभावात्' [वादन्याय पृ० ११०] इति ।
जात्यपेक्षश्च शब्दपौनरुक्तयव्यवहार इति । यज्जातीयः प्रयुक्तस्तज्जातीयस्यैव पुनः प्रयोगेण तस्यैवेति । अनुवादे तु पौनरुक्तधमदोषः। अर्थविशेषोपपत्तेरिति शेषः । तमेव दर्शयितुमाह-हेत्वपदेशादित्यादिना ।
स्मरत गिरिशं गिरीशो नगरीति । गिरि स्वाश्रयमुपभोगेन स्यति तनूकरोतीति गिरिशः शर्वः, तं स्मर ध्यायत । कीदृशम् ? यस्य गिरीशो नगरी, गिरीणां पर्वतानामीशो हिमवान् नगरी स्थानं यस्य इत्यर्थः । कीदृशस्य [60] सतः ?, सातत्यस्थानमाह-असमस्मरद्वेषस्य असमः अतुल्यः अनन्यसाधारणः स्मरं कामं प्रति द्वेषो यस्य तादृशस्य,....यदीयस्य वेषस्य गरीयस्या गुरुतरया मुदा हर्षेण संस्मृतवानित्यर्थः ।
अतिप्रसङ्गश्चैवंप्रायाणां निर्देशे भवेदिति । असम्बद्धप्रतिपत्तिरूपत्वादेते अप्रतिपत्तावन्तर्भवन्ति। पृथक् त्वेवंप्रायाणां निर्देशे क्रियमाणे नेयत्तानिर्देशः क्रियेतेत्यव्यवस्था । किमस्य कार्यव्यासङ्गस्य ।
अहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति । ननु धर्मकीर्तिनापि किं निरनुबन्धनमेव कथाविक्षेपस्य हेत्वाभासत्वमुक्तम् ?, अस्ति तस्याभिप्रायः । स हि प्रकृतसाधनासम्बन्धप्रतीते हेत्वाभासतां मन्यते । प्रकृतस्य साध्यस्य साधने यस्य सामर्थ्य नास्ति तस्य सर्वस्य हेत्वाभासतेति हि तत्पक्षः । तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org