________________
भट्टश्रीचक्रधरप्रणीतः
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे ॥ [ प्रमाणवा०, ३. १] तदा नासतो विद्यते भावो नाभावो विद्यते सत इति । पूर्वधर्मान्तरनिरोधाभ्युपगमे हि सतः अभावोऽभ्युपगतः, अपूर्वधर्मान्तरप्रादुर्भावे चासतो भावोऽभ्युपगत इति ।
अव्यक्तधर्मान्वये' हि विकाराणां प्रवृत्तिनिवृत्त्यात्मकत्वं न स्यादिति । प्रधानस्य नित्यत्वे तद्धर्मस्य नित्यत्वस्यान्वये विकाराणामपि नित्यत्वादुत्पत्तिनिरोधयोरभावः स्यादित्यर्थः ।
२४६
[ का०पृ०२०७, वि० पृ०६५७
पूर्वोक्तलक्षणैरेव लक्षिता इति । पूर्वोक्तानि यानि हेत्वाभासानां लक्षणानि तैरेव न निग्रहस्थानत्वेन पृथग् लक्षणान्तरप्रणयनं कार्यम् । प्रमाणस्य प्रमिति - विषयत्वेन प्रमेयत्वम्, प्रमेयस्य प्रमितिकरत्वेन प्रमाणत्वं यथा न स्वरूपेणैव नैवं हेत्वाभासानां निग्रहस्थानत्वम्, हेत्वाभासरूपतयैव तेषां निग्रहस्थानत्वमित्यर्थः ।
धर्मकीर्तेरपि च न विमतिः इति । स ह्याह -- "हेत्वाभासाश्च यथान्यायाद निग्रहस्थानमिति एतावन्मात्रमिष्टमिति" । [ वादन्याय, पृ० १४२ ] ॥ भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरी ग्रन्थिभङ्गे द्वादशमाह्निकम्
१ मुद्रितमञ्जर्या तु 'अव्यक्तान्वये' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org