________________
२०
भश्रीचक्रधरप्रणोतः [का पृ० १९४, पिपृ० १४३ इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न सम्भवतीति । अयं भावःमानुपलब्धिमात्रादसत्त्वं सिद्धयति, अपि तूपलब्धिलक्षणप्राप्तेऽनुपलब्धेः । न चात्र रूपादिपृथग्भूतस्यो[59]पलब्धिलक्षणप्राप्तत्वमस्तीति हेतोरभावः, निर्विशेषणाया अनुपलधेरभावप्साधने सामर्थ्याभावाद् हेतोरभाव इत्यर्थः । वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानादिति । अयं भावः- नित्यः शब्दः सर्वस्य(स्या-) नित्यत्वादिति । यदि शब्दस्य नित्यत्वे साध्ये सर्वस्यानित्यत्वं हेतुरुच्येत स्यात् प्रतिज्ञा-हेतुविरोधः । सर्वश्चेदनित्यः कथं शब्दो नित्यः ? तस्यापि सर्वमध्येऽन्तर्भावादिति । यावता तु नित्यः शब्दोऽमूर्तत्वादिति हेतुस्तस्याभिमतं सर्वस्यानित्यत्वादिति वैधHदृष्टान्तः सर्वशब्दं सावयवपर्यायमाश्रित्य, यत् पुनः सावयवं तदनित्यमिति, एवं च प्रतिज्ञा-हेतुविरोधस्य किमायातमिति । अथ यदि वैधHदृष्टान्तो विवक्षितः स्यात् साध्याभावे साधनव्यावृत्तिप्रदर्शनेनानित्यस्य 'सर्वत्वादिति ब्रुयात् । नैवम् । एवं दृष्टान्तानुभणनमस्य, न त्वेतावता हेतुपदत्वमस्य सिद्धयति । स हि दृष्टान्त एवोक्त इत्यस्य पूर्वमर्धम्
"हेतुप्रतिज्ञाव्याघाते प्रतिज्ञादोष इत्यसत्" [प्रमाणवा०भा० ४.२८६] इति ।
सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि इति । नित्यः शब्दः कृतकत्वादिति साङ्ख्यं मीमांसकं च प्रति सिद्धसाध्यत्वम् , कृतकस्य नित्यत्वेन व्याप्तस्यान्यत्रानुपलम्भाच्च दृष्टान्तहीनता ।
यमदृष्ट्वा परैरुक्तमदूषणमिदं किलेति । ‘गुणव्यतिरिक्तं द्रव्यम्' न्यायभा०, ५.२.४] इत्यादि यद् भाष्यकारेण प्रतिज्ञाहेतुविरोधाख्यं दूषणं निग्रहस्थानमुक्तं न तैरदूषणतया समर्थितम् । इदं तु स्पष्टमुदाहरणम् , अस्यादूषणत्वं नैवोद्भावयितुं शक्यत इत्यर्थः । यं च अदृष्ट्वा दिग्नागेन ‘स हि दृष्टान्त एवोक्तो वैधर्येण सुशिक्षितैः' इति वदता नित्यः शब्दः सर्वस्यानित्यत्वादिति प्रतिज्ञाहेतुविरोधाख्यमिदं दूषणणं) न भवतीत्युक्तम् ।
प्रकृत्यन्तररूपसमन्वयाभावादिति । सुखदुःखमोहात्मिकायाः प्रधानलक्षणायाः प्रकृतेरन्यत् प्रकृत्यन्तरम् । विशेषणमाह समन्वयादिति । एकप्रकृतिसमन्वये सति विकाराणां परिमाणादिति सविशेषणो हेतुः ।
कीर्तिनाऽप्य[नुमोदितम् । स ह्याह-“कश्चिदाह नास्त्यात्मेति वयं बौद्धा ब्रूमः । के बौद्धाः ?, ये बुद्धस्य भगवतः शासनमभ्युपेताः । को बुद्धो भगवान् ?,
१ सर्वत्वात् सावयवत्वात् । २ लो. वा. निरालम्बमबाद १५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org